________________
G
श्रीजैन कथासंग्रहः
श्रीमूलदेवनृप
चरित्रम्
RECENSE
॥४॥
आदेशाद्देवदत्तायाः, सोऽपि वीणामवीवदत् ॥ ३१ ॥ तामाकर्ण्य प्रमुदिता, देवदत्तैवमब्रवीत् ॥ साधु साधु त्वया वीणा, वादिता वरवैणिक !॥ ३२॥ स्मित्वाऽथ वामनः प्रोचे-ऽवन्तीलोकोऽखिलोऽप्यहो ॥ शुभाशुभविभागं द्राग्, वेत्ति कामं विचक्षणः ॥ ३३ ॥ देवदत्ता तदाकर्ण्य, साशङ्केति शशंस तम् ।। महात्मन् ! किमिह क्षुण्णं, विद्यते यद्वदस्यदः ॥ ३४॥ सोऽवादीत्क्रिमपि न्यूनं, वर्तते न भवाद्दशाम् ।। किन्तु वंशः सशल्योऽय-मस्ति तन्त्री च गर्भिणी॥ ३५ ॥ विद्वन् ! कथमिदं ज्ञेय-मित्युक्ते देवदत्तया॥ सोऽप्येतद्दर्शयामीति, वदन् वीणामुपाददे ॥ ३६॥ तन्त्र्याः केशं दृषत्खण्ड', वंशाच्चाकृष्य दत्तवान् ॥ तां चाशु प्रगुणीकृत्य, स्वयं वीणामवादयत् ॥ ३७ ॥ व्यक्तग्रामस्वरां ग्राम-रागसङ्गममञ्जुलाम् ॥ अतुच्छमूर्च्छनां लोक-कर्णपान्थसुधाप्रपाम् ॥ ३८॥ मञ्जुघोषवर्ती घोष-वतीमाकर्ण्य तां रयात् ॥ देवदत्ता सतन्त्रासी -त्परतन्त्रमना भृशम् ॥ ३९॥ (युग्मम्) करेणुरेका पूत्कार-शीलाऽभूत्तद्गृहान्तिके ॥ तद्विणाक्वणितं श्रुत्वा, साऽपि तूष्णीकतां दधौ॥ ४०॥ देवदत्ता तत: स्नेहो-दञ्चद्रोमोगमाऽवदत् ॥ अहो ! विदग्ध ! वैदग्ध्य-मिदं ते जगदुत्तमम् ॥ ४१ ॥ विपञ्चीवादने दक्षा, वाणीतुम्बुरुपारगाः ॥ गीयन्ते ये बुधैर्विश्वे, ते विश्वेऽपि जितास्त्वया॥४२॥ वैणिकोऽपि तदा नत्वा, तस्य पादावदोऽवदत् १ पाषाणखण्डम् । २ मनोहरशब्दवतीम् । ३. वीणाम् । ४ सपरिवारा । ५ हस्तिनी। ६ वीणावादने।