________________
श्रीमूलदेवनृप
श्रीजैन कथासंग्रहः
चरित्रम्
88888888888888853BIKA
॥३॥
प्रैवीन्माधविकाभिधाम् ॥ कुब्जां दास देवदत्ता, साऽपि गत्वेति तं जगौ॥ २०॥ अस्माकं स्वामिनी देव-दत्ता विज्ञपयत्यदः ॥ कलानिधे! प्रसीद त्व-मागच्छास्मन्निकेतनम् ॥२१॥ मूलदेवोऽवदत्कुब्जे !, नागमिष्यामि तद्गृहम् ॥ गणिकाजनसङ्गो हि, निषिद्धो बुद्धिशालिनाम् ॥ २२ ॥ यदुक्तं-या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरताऽतिनिकृष्टा। कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकां नविशिष्टाः॥२३॥ तेनेत्युक्ताऽपिसा चाटु-शतैरावय॑ तंभृशम् । सनिर्बन्धं करे धृत्वा-ऽचीचलन्निलयं प्रति ॥ २४ ॥ सोऽथ गच्छन् पुरो यान्ती, कुब्जामास्फाल्य तां स्यात् ॥ कलायाः कौशलाद्विद्याप्रयोगाच व्यधादृजुम् ॥ २५ ॥ ततस्सविस्मयाऽऽनन्दा, सा तं प्रावीविशद्गृहे ।। देवदत्ताऽपि तं प्रेक्ष्य, बभूवाऽऽमोदमेदुरा ॥ २६ ॥ वामनस्याऽपि सा तस्य, वीक्ष्य लावण्यमद्धतम् ॥ विस्मिता विष्टरे तुङ्गे, गौरवात्तं न्यवीविशत् ॥ २७ ॥ ततस्तया कुब्जिकया, दर्शयन्त्या निजं वपुः॥प्रोक्ते तच्चेष्टिते देव-दत्ता देवं विवेद तम् ॥ २८॥ वैदग्ध्यगर्भरालापैः, कुर्वन् गोष्टी तया समम् ॥ मूलदेवो मनस्तस्याः, स्ववशं विदधे दुतम् ॥ २९ ॥ यतः-अणुणयकुसलं परिहा-सपेसलं लडहवाणिदुललिअं॥ आलवणंपि हु च्छेआ-ण कम्मणं किं च मूलीहिं ? ॥ ३०॥ अथैको वैणिकस्तत्रा-ऽऽययौ वीणाविशारदः ॥
म् । १ सेविता इत्यर्थः । गृहम् ।४ आसने।
॥३॥