________________
श्रीजैन कथासंग्रहः
** श्री मलयसुन्दरी
कथा॥
॥६७॥
वीरधवली भवनिर्विण्णी प्रोचतुः- 'प्रभो! दीक्षां ग्रहीष्यावः । 'मा प्रतिबन्धः कार्यः इति साधुनोक्ते नृपौ स्वस्थानं गतौ । सूरपालेन पृथ्वीस्थानराज्यं महाबलाय दत्तम् । वीरधवलेनापि तत्रैव स्थितेन स्वराज्यं मलयकेतके पुत्राय दत्तम् । ताभ्यां पत्नीयुताभ्यां महोत्सवेन केवलिपार्थे दीक्षा गृहीता, समये च दिवं ययुः। महाविदेहे सिद्धि प्राप्स्यन्ति। .
अथ महाबलः शतबलं पुत्रं सागरतिलके नगरे स्थापयित्वा स्वयं च पृथ्वीस्थानपुरं गत्वा श्राद्धधर्मस्थितो राज्यमपालयत् । तस्य च द्वितीयः पुत्रः सहस्रबलनामाऽभूत् । एवं भुजबलेन व्यन्तरबलेन च बहून् नृपान् वशीकृत्य राज्यं श्रीजिनधर्म च पालयन् विशेषतः साधुभक्तिं च कुर्वन् पश्चिमे वयसि गुरोः पार्थे प्रियया युक्तो दीक्षांजग्राह। सागरतिलके शतबलो राजा, पृथ्वीस्थाने च सहस्रबलोराजाऽभूत्।
अथ महाबलर्षिगीतार्थो भूत्वा गुर्वादेशाद् एकाकी विहरन् सागरतिलके सन्ध्यायां समेत्य वने कायोत्सर्गेण स्थितः । वनपालेन शतबलाय राज्ञे विज्ञप्तम् । सोऽपि हृष्टस्तस्मै दानं दत्त्वाऽचिन्तयत् - 'साम्प्रतमन्धकारोऽभूत्, प्रातर्महोत्सवेन नन्तुं यास्यामः' । अस्मिन् समये सा कनकवती स्थाने स्थाने भ्रमन्ती तत्रैवाऽऽगता। वने गतं महामुनिं दृष्ट्वा दथ्यौ- 'एष मूलतोऽपि मे वृत्तान्तं वेत्ति । यद्यसौ मम
॥६७॥