SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी कथा । ॥६६॥ कारितः। सुन्दरजीवेन भृत्येन पूर्वदुर्वचनं स्मृत्वा कुमारस्यापि तादृशमेव वटोद्वन्धनदुःखं शवमुखेऽवतीर्य कथितम् । अन्यदा भद्रया पत्युर्मुद्रारत्नं हृतमासीत् । सा च हरन्ती सुन्दरेण दृष्टाऽऽसीत् । प्रियमित्रेण पृष्टे सति सुन्दरेणोक्तम्- 'भद्रया मुद्रारत्नं गृहीतमस्ति । तदा भद्रा प्रोचे -रे छिन्ननासिक ! त्वयैव गृहीतमस्ति, किं नार्पयसि ?' । स मौनेन स्थितः । ततः प्रियमित्रेण साम-दण्ड-भेदादिभित्विा भद्रापार्धात् तदृहीतम् । तेन हेतुना तेन भूतेन कनकवतीनासिका गृहीता, कनकवती च च्छिन्ननासाऽभूत् । कुमारोऽपि सुन्दरं प्रति दुर्वचनाद् बटे उद्धः। साधु प्रति राक्षसादिदुर्वचनादिभाषणाद् मलयसुन्दर्या राक्षसीकलकोऽभूत् । पूर्व मलयसुन्दर्या अमुना कुमारेण च सुसाधुभ्यो दानं ददे, जिनधर्मश्च पालितस्तेनाभ्याम् उत्तमकुलादिका सर्वसामग्री प्राप्ता। तथा मलयसुन्दर्या स यतिराक्रुष्टः, 'स्वबन्धुभिः सार्थ तवैव विप्रयोगोऽस्तु, त्वं राक्षस' इत्याद्याक्रोशवचनैर्भाषित्वा त्रीन् वारान् लेष्टुप्रहारैर्मुनिराहतः, महाबलोऽपि अनुमोदयन् मौनेन तस्थौ, तत आभ्यां दृढं पातकमर्जितम् । तस्याऽनुभावतो द्वयोनिजलोकेभ्यस्त्रीन् वारान् वियोगोऽजनिं । यद् मलयसुन्दर्या साधो रजोहरणं गृहीतं तेन कर्मणा अस्य बालः श्रेष्ठिना गृहीतः। एवं पूर्वभवकर्मफलमुपस्थितम् । स एवाहं साधुश्छिन्नकर्मा केवली जातोऽस्मि । मम स एव भवः, अनयोद्वितीयोऽभूत् । इति महाबल-मलयसुन्दरीचरित्रं श्रुत्वा सूरपाल ॥६६॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy