SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्रीजैन श्री मलयसुन्दरी कथा। कथासंग्रहः ॥६५॥ पातितम् । ततस्ती दम्पती यक्षाऽऽलयं गत्वा यक्षं पूजयामासतुः । तत्रैका जिनधर्माऽनुरक्ता तद् रजोहरणं वीक्ष्य प्रोचे- 'किमिदम् ?' ताभ्यां साधुसन्तापस्वरूपे प्रोक्ते साऽवादीत्- 'धिग् भवद्भ्यां विरूपं कृतं, महापातकमर्जितम् । ततस्ती भीती वलमानौ मुनिपाधै समेत्य साश्रुपातं तत्पादयोलग्नौ, रजोहरणं चदत्तम्। साधुः कायोत्सर्ग पारयित्वा प्रोचे-'भो महाभीमौ! जिनधर्म कुरुतम् । तौ गृहिधर्म समाश्रित्य साधु सबाढं क्षमयित्वा स्वस्थानं प्राप्तौं। अन्यदा स एव साधुस्तदृहे प्राप्तः, ताभ्यां भक्त्या प्रतिलाभितः। अन्यदा रुद्रा-भद्रे कलहं कुर्वाणे निर्विण्णे चिन्तयितुं लग्ने- 'एष भर्ता प्रियसुन्दरीप्रीतिं न मुञ्चति, तत्किं नित्यं कलहकरणेन ? अतो मृत्युरेव श्रेयान् । इति विमृश्य ते द्वे अपि कूपे पतिते। तन्मध्ये या भद्रा सा जयपुरे चन्द्रपालस्य सुता कनकवतीजाता, वीरधवलेनोटा च । रुद्रा व्यन्तरी जाता, भ्रमन्ती प्रतिष्ठानपुरं प्राप्ता, तौ प्रियसुन्दरीप्रियमित्रौ च रात्री प्रीतिमन्तौ दृष्टा भित्तिं पातयित्वा गता। तौ मृतौ । प्रियमित्रजीवो महाबलोऽभूत्, प्रियसुन्दरीजीवो मलयसुन्दरी जाता, सुन्दरकर्मकरजीवश्च वटे व्यन्तरोऽभूत् । अथ रुद्रा व्यन्तरी महाबलस्योपरि द्रोहं कर्तुमशक्ता तस्य वस्त्राभरणादिकमपजहे, लक्ष्मीपुञ्जहारस्तयैव महाबलकण्ठाद् अपहत्य पूर्वभवस्वसृस्नेहात् कनकवतीकण्ठे निवेशितः । तया च कूटमुक्त्वा मलयसुन्दरी प्रति कोपः ॥६५॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy