________________
श्रीजैन
श्री मलयसुन्दरी
कथा।
कथासंग्रहः
॥६५॥
पातितम् । ततस्ती दम्पती यक्षाऽऽलयं गत्वा यक्षं पूजयामासतुः । तत्रैका जिनधर्माऽनुरक्ता तद् रजोहरणं वीक्ष्य प्रोचे- 'किमिदम् ?' ताभ्यां साधुसन्तापस्वरूपे प्रोक्ते साऽवादीत्- 'धिग् भवद्भ्यां विरूपं कृतं, महापातकमर्जितम् । ततस्ती भीती वलमानौ मुनिपाधै समेत्य साश्रुपातं तत्पादयोलग्नौ, रजोहरणं चदत्तम्। साधुः कायोत्सर्ग पारयित्वा प्रोचे-'भो महाभीमौ! जिनधर्म कुरुतम् । तौ गृहिधर्म समाश्रित्य साधु सबाढं क्षमयित्वा स्वस्थानं प्राप्तौं।
अन्यदा स एव साधुस्तदृहे प्राप्तः, ताभ्यां भक्त्या प्रतिलाभितः। अन्यदा रुद्रा-भद्रे कलहं कुर्वाणे निर्विण्णे चिन्तयितुं लग्ने- 'एष भर्ता प्रियसुन्दरीप्रीतिं न मुञ्चति, तत्किं नित्यं कलहकरणेन ? अतो मृत्युरेव श्रेयान् । इति विमृश्य ते द्वे अपि कूपे पतिते। तन्मध्ये या भद्रा सा जयपुरे चन्द्रपालस्य सुता कनकवतीजाता, वीरधवलेनोटा च । रुद्रा व्यन्तरी जाता, भ्रमन्ती प्रतिष्ठानपुरं प्राप्ता, तौ प्रियसुन्दरीप्रियमित्रौ च रात्री प्रीतिमन्तौ दृष्टा भित्तिं पातयित्वा गता। तौ मृतौ । प्रियमित्रजीवो महाबलोऽभूत्, प्रियसुन्दरीजीवो मलयसुन्दरी जाता, सुन्दरकर्मकरजीवश्च वटे व्यन्तरोऽभूत् । अथ रुद्रा व्यन्तरी महाबलस्योपरि द्रोहं कर्तुमशक्ता तस्य वस्त्राभरणादिकमपजहे, लक्ष्मीपुञ्जहारस्तयैव महाबलकण्ठाद् अपहत्य पूर्वभवस्वसृस्नेहात् कनकवतीकण्ठे निवेशितः । तया च कूटमुक्त्वा मलयसुन्दरी प्रति कोपः
॥६५॥