SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः मलयसुन्दरी कथा॥ ॥६४॥ अद्यापि तदृहं शून्यमस्ति । नृपः प्राह- प्रभो! अग्रे किम् ? । मुनिः प्राह-मदनः पुरानिष्काशितो दिनद्वयं क्षुधितोऽटव्यांगोकुले गतः।गोपालेभ्यः पयः प्रार्थितं, तैश्च महिषीदुग्धेन भृतो घटो दत्तः। सच तं लात्वा पातुं सरः प्रति गच्छन् अचिन्तयत्-'यदि कस्मैचिहत्त्वा पिबामि तदा भव्यम् । इति चिन्तयतोऽस्याग्रे कोऽपि मासोपवासी मुनिर्मिलितः, तेन भावेन प्रतिलाभितो ययौ । सोऽपि पयः पीत्वा सरसि प्रविशन् स्खलितपदः पतितो जलमग्नो मृत्वा दानप्रभावाद् अत्रैव पुरे विजयस्य राज्ञः पुत्रोऽभूत् कन्दर्पनामा। पूर्वभवाभ्यासात् तस्य मनः मलयसुन्दर्यामासक्तमासीत्। अथ प्रियसुन्दरी-प्रियमित्री पृथ्वीस्थानपुरे विलसन्तौ धनञ्जययक्षयात्रार्थ रथारूढी चलितौ। ताभ्यां मार्गे मुनिरेको दृष्टः । प्रियसुन्दरी प्रोचे- र मुण्डोऽधमः, अपशकुनं महत् !' । सुन्दरनामानं भृत्यं च प्राह- 'अमुष्माद् इष्टकापाकाद् वहिमानय, यथाऽसौ डम्भ्यते' । तेनोक्तम् -'मम पादयोः पादुके न स्तः, कण्टका भज्यन्ते । तदा रुष्टेन प्रियमित्रेणोक्तम्- 'सुन्दरोऽस्मिन् वटे उद्बभ्यतां यथा पादौ भूमौ न लगतः, कण्टका अपि न भज्यन्ते'। पुनः प्रियसुन्दरी शकटात् समुत्तीर्य भृशं कुपिता 'मे प्रियेण सह वियोगो मा भूत्, परं राक्षसाकार! त्वमेव स्वबन्धुभिर्वियुक्तो भूयाः । इति वदन्ती त्रीन् वारान् लेष्टुभिस्तं मुनि जपान। पश्चात् तस्य रजोहरणं गृहीत्वा रथे निविश्य बभावे- 'अथ चलत, अपशकुनं मस्तकेऽस्यैव ॥६४॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy