________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी
कथा॥
॥६
॥
- गृहीत्वा श्रेष्ठी सकुटुम्बो जीवन् मुक्तः। सिद्धराजेन सर्व राज्यं पितुढाकितम्।।
अन्यदा श्रीपार्श्वनाथस्य शिष्यश्चन्द्रयशाः केवली गुरुस्तत्रागात् । तदा तौ सूर-वीरधवलौ सकुटुम्बी नृपो तं नन्तुं गतौ । उपदेशं श्रुत्वा श्रीवीरधवलेन पृष्टम्-'प्रभो! पुत्री समुद्रे पतिता गजमत्स्येन सुखेन कथमुत्तारिता ?, स्नेहश्च दर्शितः ?' केवली प्राह- 'श्रूयताम्, अस्या धात्री वेगवती मृत्वा समुद्रे गजाकारमत्स्यो जातः । भारण्डमुखात् तस्योपरि त्वत्पुत्री पतिता । तस्य मत्स्यस्य तां पश्यतो जातिस्मरणमुत्पन्नम् । ततस्तेन सा पृष्ठे धृतैव तटे मुक्ता, स्नेहेन च पश्यन् समुद्रं गत्वा प्रासुकाऽऽहारं गृहन् तिष्ठति । स च मृत्वा सुगतिं यास्यति' । अथ सूरो नृपः प्राह-'प्रभो ! किमेतयोर्वधू-पुत्रयोविने दुःखं जातम् ?' मुनिः प्राह-'श्रूयतां, तवैव पृथ्वीस्थाननगरे प्रियमित्रनामा गृहपतिर्लक्ष्मीवान्, परं पुत्रहीनोऽभूत् । तस्य रुद्रा भद्रा प्रियसुन्दरीचेति तिस्त्रः प्रिया अभूवन् । रुद्रा-भद्रे भगिन्यौ मिथः स्नेहले अभूतां, परं तयोर्द्वयोर्दयितस्य प्रेमलेशोऽपि न । प्रियसुन्दरी च प्रियस्य प्रियाऽभूत् । अन्यदा तस्य मित्रं मदनो नाम प्रियसुन्दया रक्तः सन् तया सह हास्यं चक्रे । तत्स्वरूपं दृष्ट्वा क्रुद्धः प्रियमित्रस्तद्वन्धूनां ज्ञापयित्वा मदनं नगरान्निरकाशयत्" । अस्मिन्नवसरे वृद्धमनुष्याः प्राहुः-'इदं सर्वमस्मद्गोचरे जातम्,
॥६३२॥