________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी
कथा॥
॥६॥
एकः सतां, मुच्यतामेषः' । इत्यादिदूतवाक्यानि श्रुत्वा पितृ-पशुरयोरागमनं ज्ञात्वा हृदि मुदितोऽपि बाहाकारेणाऽऽटोपं विप्राणो बभाषे 'भो दूत! यद्यपि तौ नृपी मान्यौ तथापि अन्यायिन : पक्षपातं कुर्वाणी अन्यायिनावेव, ततः शिक्षाही वर्तेते, रणे शिक्षां दास्ये'। इति निर्भय॑ दूतं प्रेष्य रणभेरी ताडयित्वा ससैन्योऽसौ चचाल। द्वयोरपि सैन्ययोर्युद्धं जातम् । सिद्धराजबले भग्ने सति स स्वयमेव युद्ध कर्तुं डुढीके । व्यन्तरः स्मृतः । कुमारेण शत्रूणां शस्त्राणि अर्धपथे छिन्नानि, स्वशस्त्राणि च शत्रुशरीरे लगन्ति। भटेषु व्याकुलीभूय नश्यत्सुसूर-वीरधवलौस्वयमुत्थिती। अथ सिद्धराजेन तावपि अत्याकुलौ कृती, खिन्नौ, तदा सिद्धराजेन लेखो बाणमुखे न्यस्त प्रेषितः । स च बाणः सूरस्य प्रदक्षिणां दत्त्वा अग्रे स्थित्वा प्रणनाम । राज्ञा लेखो गृहीत्वा वाचित:- 'त्वत्पुत्रो महाबलः प्रणमति' । राजा हृष्टो दधावे। सिद्धराजोऽपि पादचारी पितुः पादौ प्रणनाम। सर्वः कोऽपि हृष्टः । सर्वेऽपि नृपा महोत्सवेन सागरतिलकं पुरं प्रापुः । मलयसुन्दरी पितरं नमति स्म। परस्परं सर्व स्वरूपं प्रोक्तम् । सूरपालेनोक्तं बलसारं प्रति-रे ! मम पौत्रं देहि । तेनोक्तम्- यदि मे सकुटुम्बस्याऽभयं दीयते तदा तं ददामि। राज्ञा प्रपन्ने तेन स दत्तः। राज्ञोत्सङ्गे निवेशितः। प्रोक्तं च- 'भो ! किमस्य नाम ? | बलसारेणोक्तम्- 'बल इति नाम । तदा तेन बालेन पितामहकरस्थितदीनारशतग्रन्थिश्चालितः, ततस्तेन तस्य 'शतबल' इति नाम दत्तम् । सर्वस्वं
॥६॥