________________
श्रीजैन कथासंग्रहः
श्री.मलयसुन्दरी
कथा॥
॥६
॥
- अन्यायदुमोऽनयोः फलितः । ततः सर्वलोकस्तत्र स एव राजा स्थापितः । शत्रून् जयन् 'सिद्धराज' इति नाम्ना ख्यातोराज्यमपालयत् । 'स्मृतेनांगन्तव्यं त्वया' इति विसृष्टो व्यन्तरो ययौ।
अन्यदा बलसारोऽपि देशान्तरादागतः, प्राभृतं कृत्वा सिद्धराजमुपतस्थौ । तेन तस्य वामाङ्गस्था मलयसुन्दरी दृष्टा, तयाऽपि स उपलक्षितः । स च राज्ञा भाषितः शङ्कितः स्वस्थानं ययौ। मलयसुन्दर्या प्रियस्याये तस्य स्वकीयकदर्थना-पुत्रहरणस्वरूपं प्रोक्तम्, तदा सज्ञा स सकुटुम्बो धृतोऽचिन्तयत्'पृथ्वीस्थानेशः सूरपालः, चन्द्रावतीशो वीरधवलश्च, एतौ द्वौ परिचितौ वर्तेते। एतत्पुराधिपेन च सह तयोः सदैव वैरं वर्तते । ततस्तयोरेव ज्ञापयामि, अष्टाष्टौ द्रम्मलक्षाणि द्वीपानीतांश्चाष्टौ गजान् ददामि, स्वं च मोचयामि । इति विचिन्त्य सोमनामा कोऽपि स्वकीयस्तेन प्रेषितः । अस्मिन्नवसरे वीरधवल: सूरपाला पृथक पृथग् लोकमुखशुद्ध्या रौद्राटव्यां दुर्गतिलके गिरी भीमपल्लीपतेर्पाचँ मलयसुन्दरी श्रुत्वा तत्र प्राप्ती। भीमं जित्वा मलयसुन्दरीशुद्धिमपि अप्राप्य विषण्णी यावत् स्वस्थानं गच्छतस्तावता सोमस्तव गतः सर्व बलसारोक्तं स्वरूपं बभावे। तौ द्वावपि अर्धमध प्रपद्य सोमप्रेरिती सागरतिलकतटपुरं प्रति चलिती। सन्यो गत्वा ताभ्यां दूतः प्रहितो गत्वा सिद्धराज प्रति जगी- 'भोः ! पृथ्वीस्थानाधिपः चन्द्रावतीपुरीस्वामी चद्वी नरेवरी वक्त:-सोऽयम् अस्मत्परिचितो बलसारोऽस्ति। ततोऽस्मदचसाऽपराध
॥६॥