SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी कथा॥ ॥६ ॥ राज्ञोक्तम्-'तथा कुरु यथा स्वीयमुखेन पृष्ठं पश्यामि । सिद्धेन रुष्टेन गलमामोटा मुखं पश्चात् कृत्वा प्रोक्तम् - 'पश्य यथेष्टं पृष्ठम् । सभा क्षुब्धा । मन्त्री प्राह-त्वं धूर्तः शिक्षायोग्यः । तदा सर्वमन्तःपुरं तां वाता श्रुत्वा समेत्य सिद्धस्य पादयोलग्नम्। कृपां कुरु, नृपं सजं कुरु' । इत्यादिचाटुभिभिन्नहदयः स प्राह-'यदि एवंविध एव पादचारेण पुराद् बहिर्गत्वा प्रासादस्थश्रीअजितनाथप्रतिमां नत्वा समेति तदा सजं करोमि, नो चेद् एवंविधो मरिष्यति । ततो राजा लोकैः सहास्य कौतुकं सदयं दृश्यमानो जिनं नत्वा आगात् । सिद्धेन नसां चालयित्वा मुखं स्वस्थाने कृतम् । अथ यामि' इति सिद्धेनोक्ते राज्ञा प्रत्युत्तरेऽदीयमाने वाजिशालायां वह्निर्लनः । राज्ञोक्तम्- 'मम पट्टतुरङ्गमं ज्वलन्तं वह्निमध्याद् निष्काशय' । इति श्रुत्वा सिद्धो वह्नौ झम्पां दत्त्वा क्षणात् स्वर्णपर्याणभूषिताऽश्वारूढो दिव्यशृङ्गारः समेतः । सर्वेषां चित्रं जातम् । राज्ञा पृष्टम्-'कथं समेतः?' । सिद्धेनोक्तम् - 'महाप्रभावोऽयं वह्निः, योऽत्र प्रविशति स एवंविधो भूत्वा समेति । इति श्रुत्वा सर्वः कोऽपि प्रवेष्टुं सजोऽभूत् । सिद्धेनोक्तम्-'पूर्व राजा मन्त्रीच गच्छतां, शेषाः क्षणं प्रतीक्षध्वम्' । ततो नृप-मन्त्रिणौ वहिं प्रविष्टौ। क्षणान्तरे लोकेनोक्तम्-'किमद्यापि नागच्छताम् ?। तेनोक्तम्-'समेष्यतः। घटीचतुष्केऽप्यतिक्रान्ते तौ नागतौ । लोकेनोक्तम्-'को हेतुः ?' । तेन हसित्वोक्तम्-'भो ! अहं देवसान्निध्याद् निर्गतोऽस्मि । तौ तु वहिं गतौ अनश्यताम् । ॥६०॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy