________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी
कथा॥
॥५९॥
- 'मयोक्तम्- यदि अस्मिन् कार्ये कृते सति स बुध्यते तदा किं हन्यते ?' तेनोक्तम्- 'त्वया विषमकार्ये स्मर्योऽहं, सर्व करिष्ये'। ततस्तेन कुतोऽपि करण्डमानीय फलैः प्रपूर्य सुखेन पुरसमीपमानीतः। प्रोक्तं . च- 'अहम् अदृश्य एव त्वया सह सभां गमिष्यामि । ततोऽहं करण्डं सभायां मुक्त्वा त्वन्मुदेऽत्रागतोऽस्मि"। अनावसरे सभायां सिद्धमुक्तकरण्डात् शब्द उद्तः- 'राजानं भक्षयामि मन्त्रिणं वा भक्षयामि । इति श्रुत्वा सर्वेऽपि भीताः प्राहुः- 'सिद्ध एवायं गूढात्मा, तस्य शक्तिर्न सामान्या, करण्डे किमपि भयङ्करमस्ति । तदा जीवमन्त्री किं भयङ्करम् ?' इति वदन् लोकैर्वार्यमाणोऽपि तं करण्डमुदघाटयत् । तत्क्षणं करण्डादग्निज्वाला निर्गता। तया तत्क्षणं मन्त्री भस्मीभूतः । सा च सभां ज्वालयितुं प्रवृत्ता। राज्ञा भीतेन सिद्ध आकारितः । तेन करण्डमाच्छाद्य जलेन च्छटा क्षिप्ता, सर्व शान्तं जातम् । ततः पुनः करण्डमुद्घाट्य आम्रफलानि लात्वा सर्वेभ्यो दत्तानि । सर्वः कोऽपि चमत्कृतोऽचिन्तयत्- 'सत्यः सिद्धोऽयं स्यात् । अथ राज्ञा मन्त्रिपदे मन्त्रिसुत एव निवेशितः।।
पुनर्दिनद्वयेऽतिक्रान्ते सति सिद्धेनोक्तम्-'अहं सभार्यों यामि'। परं राजा मलयसुन्दरीरागं न मुञ्चति । तं प्रति प्राह - 'भो ! एकं कार्य कृत्वा यथेष्टं व्रजेः' । सिद्धः सकोपोऽवक् 'किं कार्यम् ?'।
॥५९॥