________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी
कथा।।
॥५८॥
छिन्नटगिरिरस्ति । तस्मिन्नेकैव पद्याऽस्ति । तस्याऽर्धतटे सदाफल: सहकारोऽस्ति । त्वया पद्यया गिरिशीर्षमारुह्य चूतं प्रति झम्पा दातव्या। तस्य वृक्षस्य फलानि लात्वा भूमिं प्रति झम्यादातव्या। एवं फलान्यानीय भूभुजे देहि येनास्य पित्तमुपशाम्यति। सिद्ध इति श्रुत्वा शिरोधूनयन् 'अहो! क्षुद्राऽऽदेशः !' इति चिन्तयन्, 'अत्र काऽपि मति स्ति, मृत्युरेवास्ति। यदि वाऽप्राप्तभार्यों व्रजामि तदाऽपि मृत्युरेव, द्विधाऽपि तद्भावे साहसमेव वरम्' इति ध्यात्वा 'अवश्यं करिष्यामि ते कार्यम्' इत्युक्त्वा राजनरैर्वेष्टितः स चलितः । पौरलोका हाहारवं कुर्वन्ति । पर्वते चटित्वा चूतं प्रति झम्पां दत्त्वा अदृश्यश्चाभूत् । लोकैश्चिन्तितम्-'अस्थीनि पृथक् पृथग् भूत्वा गतानि । सर्वः कोऽपि सदुःखो गृहमागात् । प्रातः स एव सिद्धः शीर्षे फलभृत्करण्डं वहन् जनानां कौतुकं दर्शयन् राजसभामागात् । राजा विस्मितः । सोऽपि नृपमनुज्ञाप्य फलद्वयं गृहीत्वा करण्डं तथैवाऽऽच्छाद्य 'प्रतीक्ष्यः क्षणम्, आगच्छन्नस्मि' इत्युक्त्वा मलयसुन्दरीपाच गतः । सा प्रीति प्राप्ता। फले दत्ते । निविष्टं च सा प्राह-'प्रिय! कथय, कथं कार्य सिद्धम् ?'स प्राह- 'शृणु, यो योगी मे पूर्वपरिचितः स मृत्वा तत्राने व्यन्तरो जातोऽस्ति। तेनाहं पतन् दृष्ट्वा कराभ्यामुत्पाट्य भव्ययुक्त्या वृक्षे स्थापितः। उपकारवार्तया रात्रिर्गता। प्रातय॑न्तरेणोक्तम्- 'किं ते पतनकारणम् ?'। मया स्वरूपे प्रोक्ते तेनोक्तम्-'राजा त्वां हन्तुमिच्छति ततोऽहं नृपमेव हन्मि।
॥५८॥