________________
श्रीजैन कथासंग्रहः
॥५७॥
**
**
**
हन्यते ?' राज्ञेोक्तम्- सा तत्प्रिया मदन्तः पुरे तिष्ठतु, स च यातु । न कोऽप्येनं हन्ति । तदा जीवाभिधानेन · मन्त्रिणाप्युक्तम्- 'भोः ! किमेषा चिन्तां भवतामस्ति ? भवद्भिः स्वगृहचिन्ता क्रियताम्' । जनाः शिरो धूनयन्तो गताः । सिद्धः सकललोकेषु हाहाकारं कुर्वत्सु चितामध्यं प्रविष्टः, राजनरैश्चतुर्दिक्षु वह्निर्दत्तः । अर्धज्वलितं कृत्वा ते तत्स्वरूपं राज्ञः प्रोचुः । स हृष्टः । लोकानां रात्रौ तद्दुःखेन निद्राऽपि नागमत् । प्रातः स एव सिद्ध: शिरसि रक्षापोट्टलकं वहन् सकौतुकं जनैर्वीक्ष्यमाणो राजसभां गत्वा प्रोचे- 'शिरसि क्षिप्यतामेषा रक्षा' । राज्ञोऽपि चित्रं जातम् । उक्तं च- 'भोः ! किं त्वं न दग्धः ?' । तेनापि कूटमुक्तम् 'हे नरेन्द्र ! चिताग्नी दग्ध एवाहं परं मे सत्त्वेन तुष्टैर्देवैरभिः शमितः, जीवितश्चाहम्' । राज्ञा चिन्तितम्'कूटं वक्ति, वह्निज्वलने जनानां दृशो वञ्चयित्वा नष्टो घटते !' । ततो रक्षकैर्वृतो मलयसुन्दरीस्थानं ययौ । तत्र भुक्त्वा समये स तया पृष्ट:- 'प्राणेश ! कथं जीवितोऽसि ?' । तेनोक्तम्- 'शृणु, यया सुरङ्गया कूपान्निर्गतस्तस्या मुखद्वारोपरि चिता स्थापिता । मध्ये प्रविष्टोऽहम् । यदा ज्वलनो लग्नस्तदा तद् द्वारमुद्घाट्य सुरङ्गामध्ये स्थितः । वह्नौ ज्वलित्वा स्थिते निर्जने निर्गत्याऽऽगतोऽस्मि । त्वया कस्यापि न वक्तव्यम् । पुना राजसमीपं गत्वोचे 'मां सभार्य विसर्जय' । राज्ञोक्तम्- 'द्वितीयमपि कार्यं कुरु । तेनोक्तम्- 'किं कार्यम् ?' राज्ञा जीवमन्त्रिणो मुखं वीक्षितम् । तेनोक्तम् - शृणु, पुरप्रत्यासन्ने
श्री मलयसुन्दरी
कथा ।।
॥५७॥