________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी
कथा।।
॥५६॥
तव स्नेहात् पुरं प्राप्तः । पटहं दीयमानं दृष्ट्वा स्पृष्ट्वा च प्राप्तोऽस्मि । सर्पमणिना त्वं सजिताऽसि"। इति वातां कृत्वा तेनाऽऽहूतः सपरिजनो राजा तत्र तां सजां दृष्ट्वा हृष्टः । उपविष्टः सन् समाचष्ट-भोः! किं ते नाम ?' । इत्युक्ते तेनोक्तम्-'सिद्ध इति मे नाम' । ततः सिद्धेनोक्तम्-'प्रियां गृहीत्वा अथ स्वस्थानं यामि' । राजा शृणोत्यपि न, अन्याश्च वार्ताश्चक्रे । अपृच्छच-तवेयं किं स्यात् ?' तेनोक्तम्-'ममेयं प्रिया वियुक्ताऽधुना मिलिता, त्वं सत्यवाग् असि, मां विसर्जय। राज्ञोक्तम्-"तहि मे कार्य कृत्वा व्रज । शृणु, नित्यं मे शिरो दुःखयति। वैद्येनकेन औषधं प्रोक्तमस्ति-'यः कश्चिन्नरस्तव लक्षणैः सदृग् भवति स यदि दह्यते, तद्भस्म च भाले न्यस्यते तदा शिरोऽर्तिर्याति" । इति श्रुत्वा सिद्धेन चिन्तितम्-'अहो! क्षुद्राऽऽदेशः, अयं मां हन्तुमिच्छति, । परं द्विधाऽपि मृत्युरस्ति, इत्यनुष्ठितमिदं वरम् । इति चिन्तयन् सोऽवादीत्-'करिष्यामि ते कार्यम् । राजा स्वगृहं ययौ। तौ च यामिकै रक्षितौ पृथक् पृथक् स्थापितौ।
द्वितीयदिने पाश्चात्ययामे सिद्धेन काष्ठानि प्रहितानि। राजनरैलोकैश्च युक्तो विहिताऽन्तयोग्यवेषस्तत्र ययौ । तेन स्वयमेव योग्यभूमी चिता स्थापिता। मलयसुन्दरी च तज्ज्ञात्वा महादुःखं प्राप्ता । तदा पुरलोकास्तद् पुरनं विनश्यद् दृष्ट्वा कृपया राजानं विज्ञपयामासुः- 'प्रभो! किमर्थ परोपकारी नरो मुधा
॥५६॥