________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी
कथा॥
॥५५॥
विषप्रतीकारांश्चक्रे । तेषु क्रियमाणेष्वपि सा मूग गता श्वासमात्राऽभूत् । एवं राज्यतिक्रमे जाते प्रभाते राज्ञा पटहो दापित:-'यो बालांसजीकरोति तस्मै राजा रणरङ्गनामानं गजं देशं कन्यां च दत्ते । स पटह एकेन पुंसा स्पृष्टः। स च राज्ञः पार्थ नीतः। राजा तमुपलक्ष्य अचिन्तयत् -'स एवायम् अस्याः प्रियः, केनायं कुपात् कृष्टः ?' इति चिन्तयन् आकारसंवरं कृत्वा प्रोचे-'भो ! इमां सजां कुरु, यदुक्तमस्ति तद् दास्ये । तेनोक्तम्-'वैदेशिकोऽहं, मत्प्रियाम् इमामेव देहि, परेणाऽलम्'। राज्ञोक्तम्-'भव्यम्, एवमस्तु, परं केचिद् मदादेशास्त्वया साध्याः । तेन प्रपन्नम् । राजा तं गृहीत्वा मलयसुन्दरीपाचं गतः। स कुमारस्तत्र निर्जनं कृत्वा पवित्र भूमिं विधाप्य पानीयमानाय्य कटिपट्टकात् सर्पमणिमादाय जलेन क्षालयित्वा तेनैव जलेन तां सिक्त्वा सचेतनां कृत्वोत्थापयामास । साऽपि प्रियं वीक्ष्य प्रीत्या प्रोचे-'हे प्राणेश! कथं कूपानिर्गतः?' सोऽवादीत्-"शृणु, अहं कूपान्तः पतितो दिशोऽवलोकयन् शिलाच्छन्नं द्वारमेकं दृष्ट्वा पादप्रहारेण शिलां दूरीकृत्य मध्ये प्रविष्टः सुरङ्गया चलितः । तेनैव सणाग्रे भूत्वा गच्छता मणितेजसाउन्धकारोऽपि दूरीकृतः । कियत्यपि मार्गे विद्यमाने सर्पो नष्टः । मया चाग्रे आस्फालितेन सता हस्तेन द्वारमुद्घाटितम् । निर्गतचाहम् । मया चिन्तितम्-'चौरसुरङ्गेयं घटते, परं चौरो मृतः' । पुनरग्रे गच्छता स एव सर्पो मंयाकुण्डलं कृत्वा निविष्टो दृष्टः । मन्त्रेण वशीकृत्य मणिं गृहीत्वा ततोऽहं
॥५५॥