________________
श्रीजैन कथासंग्रहः
मी मलयसुन्दरी
कथा॥
॥५४॥
महाबलेनोक्तम्-'भोः कस्त्वम् ?' । तेनापि महाबलस्वरमुपलक्ष्य प्रोक्तम्-'भोः ! पूर्व मे भालं स्वनिध्यतेन मर्दय । तेन मर्दिते स पुंरूपं त्यक्त्वा मलयसुन्दरी जाता। तावता कूपभित्तिस्थसण मुखं बहिष्कृतम् । तस्य शीर्षमणिना प्रद्योते कृते महाबलः स्वप्रियां दृष्ट्वा परां प्रीति प्राप्तो बभावे-'हे प्रिये ! किमिदम् ?' साऽपि रुदती सर्वमनुभूतं प्राह । 'धिग् दैवम् !' इति वदन् सोऽपि स्वस्वरूपं प्रोचे । तौ वार्तालापपरौ रात्री तत्र सुखं तस्चतुः। प्रभाते जाते कन्दो राजा तां नष्टां श्रुत्वा पादानुसारेण धावन् कूपकण्ठमुपेत्य तौ मध्ये दृष्टा प्रोचे-'भोः ! को युवाम् ?' । महाबलेनोक्तम्-'अहं महयिता चेयम्। राज्ञोक्तम्-'निष्काशयामि । तेन 'निष्काशय' इत्युक्ते प्रिया तं प्रति प्राह-'प्राणेश! सोऽयं कन्दपों राजा येनाहं बाढं सन्तापिताऽस्मि। एष मयि लुब्धोऽस्ति। बहिर्निर्गमे त्वां हनिष्यति । तेनोक्तम्'मा भैषीः, बहिनिर्गतो भव्यां शिक्षां दास्ये। ततो राज्ञा रजुबद्ध मचिके मध्ये क्षिप्ते । तावारुह्योपरि प्राप्तौ । राज्ञा मलयसुन्दरी बहिनीत्वा छुरिकया रजुं छित्त्वा मचिकास्थमेव कुमारं कूपान्तः पातयामास । रुदी मलयसुन्दरौं कूपझम्पां ददती निरुध्य गृहीत्वा क्वापि गृहे स्थापयित्वा राजा स्वभुवने ययौ। सा यामिकै रक्ष्यमाणा भूमौ लुठन्ती सर्पण दष्टा। अहं दष्टाऽस्मि' इति तस्यां वदन्त्यां यामिकैः स सर्पो दृष्ट्वा हतः । साऽपि नमस्कारं स्मरन्ती कृताराधनाऽस्थात् । राजाऽपि तज्ज्ञात्वाऽत्याकुलः समेत्य .
॥५४॥