________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी
कथा॥
इति ध्यात्वा शीवाद गुटिकामाकृष्य आम्ररसेन घृष्ट्वा भाले तिलकं चकार, तदा सा दिव्यरूपः पुरुषो जातः । तं दृष्टाऽपृच्छत् - कस्त्वं कीदृक् ?'। तेनोक्तम्-स्वयमेव पश्यन्नसि यादृशोऽस्मि । राज्ञोक्तम्'भो! या स्त्री मुक्तासीत् सा कास्ति ?' । रक्षकैरुक्तम्-'देव ! सा बहिर्न वाऽपि गताऽस्ति !'। राज्ञा चिन्तितम्-सैवेयं पुरुषरूपं कृत्वा स्थिता घटते । तत उक्तम्-'भो! ज्ञातमस्य स्वरूपम् । बाह्याऽऽवासे स्थापयित्वा बाढंरक्षणीयः' । ततः स तत्राऽऽनीय धृतः । राज्ञा नित्यं तत्राऽऽगत्य स पृच्छ्यते- 'भोः! त्वया किं स्त्रीरूपं हित्वा पुंरूपं कृतम् ?, कथं च स्त्रीरूपं भविष्यति ? परं स किञ्चिद् नोवाच, धर्मध्यानपर एव तिहति । ततोराजा कोपतस्तं विविधताडनैः कुट्टयति । अथैकदा सोऽचिन्तयत्-'अत्र जीविताद् मरणं वरम्' इति म्यात्वा रक्षकेषु सुप्तेषु सत्सु ततो निर्ययौ । बहिर्देश्यकुड्यां स्थित्वा प्रत्यासत्रेऽल्पजलाभिधे कूपे पतनाय चलितः । तस्य कण्ठे निविश्य प्राह-रे देव ! यदि त्वया इह जन्मनि तादृशेऽपि कुलेऽवतारं दत्त्वा व्यर्थ जन्म कृतम्, तादृशेन च महाबलेन प्रियेण सह वियोगच दत्तः, तथाऽपि आगामिनि भवे प्रसन्नीभूय तेन प्रियेण सह सङ्गमं देयाः' । इत्युक्त्वा यावत् स सजो भवति तावद् महाबल एव पृथ्व्यां प्रमन् दैवयोगात्तस्यामेव देश्यकुडयां निद्रामप्राप्तस्तदुक्तं सर्व श्रुत्वा दधावे। 'मा मा' इति जल्पन यावद् आगतस्तावत् सहसा पपात, सोऽपि च पपात। कूपमध्ये पतितेन
॥५३॥