________________
श्रीजैन
संग्रह
श्री मलयसुन्दरी कथा॥
॥५२॥
कदाचित् सोऽपि मिलेत् । परम् एष राजा मम पितृ-शुरयोर्वरी वर्तते, यद्यस्य सत्यं वक्ष्यामि तदा मां कदर्थयिष्यति, पुत्रमपि लास्यति । इति विचिन्त्य निःश्वसत्या तयोक्तम्-'किं पृच्छ्यते ? अहं पुण्यहीना यत्र तत्र दुःखं सहमानाऽस्मि' ? लोकैरुक्तम्-'देव ! दुःखपूरिताऽधुना वक्तुं न शक्नोति, ततः किं पृच्छ्यते ?' । राज्ञोक्तम्-'तथाऽपि भद्रे ! स्वनाम वद' । तया मन्दमुक्तं 'मलयसुन्दरी' इति । राज्ञा सा स्वपुरुषैहे प्रेषिता। दासीभिः शुश्रूष्यमाणा सजशरीराऽभूत् । ततो राजकान्ते सा कलत्रभावाय भाषिता, परं सर्वथा न मन्यते, राज्ञः सम्मुखं प्रबोधं दत्ते, स च न बुध्यते । अथ राजा तस्याश्चित्तप्रसत्त्यर्थ स्वस्यार्थे यद् यद् रम्यं तत् तत् तस्यै प्रेषयति स्म।
अन्यदा स्नानस्थितस्य नृपस्याङ्के पक्वम् आम्रफलं पतितम् । तद् दृष्टा नृपोऽचिन्तयत्-'साम्प्रतं फाल्गुनमासि कुतः फलमिदम् ? ज्ञातं वा, पुरप्रत्यासन्ने छिन्नटगिरी सदाफलः सहकारोऽस्ति, तत्फलं शुकेन गृहीतं भारात् पतितं घटते' । राज्ञा रम्यमिति तत्फलं मलयसुन्दर्य प्रहितम् । भृत्यानां च कथितम् - ‘फलमर्पयित्वाऽन्तःपुरे समानीय स्थाप्या। मलयसुन्दरी तत्फलं दृष्ट्वा अहो! पूर्वपुण्यैः दौकितमिदम्' इत्यचिन्तयत् । तैश्च नरैः सा अन्तःपुरे मुक्ता, राज्ञे ज्ञापितं च। 'नूनं राजा बलादपि मे शीलरत्नं हरिष्यति'
॥५२॥