________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी
कथा॥
॥५१॥
पुत्रः'। ततो महोत्सवं कृत्वा 'बल' इति नाम दत्तम् । कतिचिदिनानन्तरं श्रेष्ठी मलयसुन्दरी सह गृहीत्वा प्रवहणेऽचलत् । सा पुत्रदुःखेन रुदती न भुङ्क्ते । तेनोक्तम् - 'किं न मुझे ?' । तयोक्तम् 'मम पुत्रशुद्धिं कथय । तेनोक्तम्-'मदुक्तं कुरु यथा कथयामि । सा मौनं कृत्वा स्थिता। श्रेष्ठी बर्बरकूलं गतः । तेन तत्र सा बहुद्रव्येण विक्रीता। तत्रापि कलत्रभावैः प्रार्थिता नाऽमस्त ? ततस्तैलोंकैस्तस्याः शरीरं तक्षित्वा तक्षित्वा रुधिरं निष्काश्य कृमिरागवस्त्राणि रज्यन्ते । पुनःपोष्यते तक्ष्यते च । एवमन्यदा सर्वाङ्गं तक्षिता रुधिरलिप्ता मूच्छिंता भूमौ पतिता तदैकेन भारण्डेन आमिषवाञ्छया उत्पाटिता। स भारण्डः समुद्रोपरि गतोऽन्येन भारण्डेन रुद्धो योर्बु लनः । सा तन्मुखात् समुद्रे गजाकारमत्स्योपरि पतिता सती नमस्कार पठति स्म। 'धिक् कर्मगतिम् !' इति चिन्तयन्ती तेन मत्स्येन ग्रीवां वालयित्वा विलोकिता। ततः स मत्स्यस्तां भव्ययुक्त्या पृष्ठे वहन् तटाभिमुखं यातः । कस्यापि पुरस्य प्रत्यासन्नतटे पृष्ठादुत्तार्य वलितग्रीवस्तां पश्यन् समुद्रान्तर्गतः। तस्मिन्नवसरे तटपुराधिपतिः क्रीडार्थ तत्राऽऽगतस्तन्मत्स्यादिस्वरूपं दृष्ट्वा विस्मितस्तां बभाषे-'हे सुन्दरि ! का त्वं ? कथं मीनेनात्र सस्नेहतया मुक्ताऽसि ? । इदं सागरतिलकाख्यं वेलाकूलं नगरम्, तस्याऽधिपोऽहं कन्दर्पनामा, ततस्त्वं विश्वस्ता सर्व कथय । इति श्रुत्वा तया चिन्तितम् - 'जागर्ति ममाऽद्यापि कोऽपि पुण्यलवः, यतो यत्र मे पुत्रस्तत्रैव स्थाने प्राप्ताऽस्मि,
॥५१॥