________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी
कथा॥
॥५०॥
शोकाकुलाऽवादीत्-'हा वत्स ! त्वजन्ममहोत्सवमनोरथा दैवेन हताः, मन्दभाग्याऽहं किं कुर्वे ?' प्रातः सा नद्यां स्नात्वा वल्लीगृहे बालं लालयन्ती तस्थौ । तदा तत्र कोऽपि सार्थः समेतः सरित्तीरे समुत्तीर्णः । सार्थपः शरीरचिन्तया तत्राऽऽगतस्तां दिव्यरूपां वीक्ष्य प्रोचे-'बाले! का त्वम् ?'। सा नाऽवादीत् । पुनः स जगौ-'अहं सागरतिलकनाम्नि नगरे बलसाराभिधो व्यवहारी बसामि । द्रव्यार्जनायान्यत्र गतोऽभूवम्, अधुना स्वस्थानं व्रजन्नस्मि । त्वमेकाकिनी बने किं करोषि ? सार्थमध्ये समेत्य मत्पार्थे सुखं तिष्ठ।' सातं सरागं विचिन्त्य कूटमुत्तरं चक्रे-'भो महाभाग ! अहं चाण्डाली क्षणं रुष्टाऽवागताऽस्मि, पुनर्विरहातुरयोर्माता-पित्रो-मिलिष्यामि । तेनोक्तम्-मा कूटमुत्तरं कुरु, आगच्छ । इति वदन् तदुत्सहात्तं बालं बलाद् गृहीत्वा चलितः। सावत्सस्य धेनुरिव तस्य पृष्ठे लग्ना सार्थेशस्थानं ययौ । सा स्थापिता ससुता।' पाञ्चालस्त्रीषु मार्दवम्' इति नीतिवाक्यात् तेन दास्येका प्रोक्ता-'एषा यद्यत् कथयेत् तत्तत् कर्तव्यम् । अथ निर्विलम्बप्रयाणकैः सस्वपुरं प्राप । तत्र तां क्वापि गुप्तवेश्मनि स्थापयित्वा एकान्ते प्राह-'यदि हर्षेण मदुक्तं मन्यसे तदा त्वां सर्वस्वामिनी करोमि । तयोक्तम्- बहु न वाच्यं, वरं जिहां खण्डयित्वा म्रिये परं ते वाक्यं न मन्ये'। ततस्तेन रुष्टेन तत्पुत्रो गृहीत्वा निजप्रियायै समर्पितः। कथितं च- 'मयाऽशोकवनिकायां गतेन लब्धोऽयं बालः पालनीयः । अपुत्रयोरावयोरेष
॥५०॥