SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी कथा॥ ॥४९॥ अथ चतुर्थ उल्लासः। अथ राजा भृत्यानाय प्रोचे-'भो ! भवद्भिर्वधूं गृहीत्वाऽटव्यां किं कृतम् ?' । तैरुक्तम्-सा तत्र मुक्ता सती दीना कम्पमाना जाता, ततोऽस्माभिः स्त्रीहत्या न कृता, तत्र जीवन्त्येव मुक्ता' । राज्ञा प्रीत्योक्तम्- 'भव्या भो! भवन्तः, भव्यं कृतं भवद्धिः। इत्युक्त्वा ते सम्मान्य प्रहिताः। कुमारेणोक्तम्'भृत्या अटव्यां प्रेष्यन्ते, तस्या मातापित्रोच ज्ञाप्यते। राज्ञा तथा कृतम् । ततः सर्वैरपि बलात् कुमारो भोजितः, पश्चात् सवैरपि भुक्तम् । ततो भृत्यैरागत्य प्रोक्तम्-देव ! सर्वत्राटवी शोधिता, परं सा न लब्धा । कुमारस्तज्ज्ञात्वा तद्विरहाऽऽतुरो रात्री खङ्गयुक्तोऽचलत् । राज्ञाऽपि कुत्रचित् तमपश्यता ज्ञातम्-'पुत्रो वधूशोधनाय गतो घटते । अथ मलयसुन्दरीस्वरूपं कथ्यते-तदा सा तै टैस्तत्र मुक्ता । ते च गताः । साऽचिन्तयत्-'मया किमपि नापराद्ध, कथमयं श्वशुरः कुपितः ? कर्मण एव वा विपाकोऽयम्' इति चिन्तयन्ती, रौद्राटव्यां घूक-शिवाफेत्कारान् शृण्वती दुःखपूरिता 'हा प्राणनाथ ! हा तात ! हा मातः ! हा भ्रातः !' इति विलापान् विलपन्ती इतस्ततो प्रमन्ती पुत्रं सुषुवे । सा विशालभालं बालं दृष्ट्वा हर्ष ॥४९॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy