SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी कथा॥ ॥४८॥ कुर्वतो न मे कश्चिद्दोषः, यत इष्टाऽपि विनष्टा भुजा च्छिद्यते। तत् कुमार! मा ताम्य, स्वस्थं मनः कृत्वा स्वं गेहसारं साम्प्रतं पश्य' । इति वदन् सपरिच्छदो राजा पुत्रेण तालकान्युद्घाटयामास । एवं कुर्वता मञ्जूषाया अपितालकमुद्घाटितम् । तत्र सा पापिष्ठा विवस्खा राक्षसीरूपा मुत्कलकेशा कर्तिकाधारिणी बुभुक्षाक्षामा दृष्टा । सर्वेऽपि भीता इव जाताः । कुमारेणोक्तम्-'तात ! दुष्टयाऽनया राक्षसीरूपं कृत्वा तव चित्ते प्रत्ययमुत्पाद्य सा निष्काशिता'। ततः सा दुष्टा मञ्जूषातो निष्काश्य गाढं ताडिता सती सर्व स्वकृतचेष्टितं प्राह । राज्ञा सा खरमारोप्य पुरे भ्रमयित्वा स्वदेशानिर्गमिता । कुमारः प्रियाविरहाच्चतुर्विधाहारं त्यक्त्वा मर्तुकामो मौनेनाऽस्थात् । राजा राज्ञी चाऽपि तेन मर्तुकामौ जातो, तज्ज्ञात्वा पौरा अपि राज्यविनाशचिन्तया व्याकुला जाताः। अस्मिन्नवसरे पुस्तकहस्तः कोऽपि नैमित्तिकः सभां प्राप्तः । राज्ञा सादरं वधूस्वरूपं पृष्टः प्राह-‘सा जीवन्त्यस्ति, वर्षप्रान्ते कुमारस्य मिलिष्यति' । इति श्रुत्वा सर्वेऽपि समुज्जीविता इव परां प्रीति प्रापुः। इति श्रीअञ्चलगच्छे श्रीमाणिक्यसुन्दरसूरिकृतायां मलयसुन्दरीकथायां मलयसुन्दरीचशुरकुलसमागम- राक्षसी - कलापरित्यागवर्णनो नाम तृतीय उल्लासः। ॥४८॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy