SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी कथा॥ ॥४८॥ कुर्वतो न मे कश्चिद्दोषः, यत इष्टाऽपि विनष्टा भुजा च्छिद्यते। तत् कुमार! मा ताम्य, स्वस्थं मनः कृत्वा स्वं गेहसारं साम्प्रतं पश्य' । इति वदन् सपरिच्छदो राजा पुत्रेण तालकान्युद्घाटयामास । एवं कुर्वता मञ्जूषाया अपितालकमुद्घाटितम् । तत्र सा पापिष्ठा विवस्खा राक्षसीरूपा मुत्कलकेशा कर्तिकाधारिणी बुभुक्षाक्षामा दृष्टा । सर्वेऽपि भीता इव जाताः । कुमारेणोक्तम्-'तात ! दुष्टयाऽनया राक्षसीरूपं कृत्वा तव चित्ते प्रत्ययमुत्पाद्य सा निष्काशिता'। ततः सा दुष्टा मञ्जूषातो निष्काश्य गाढं ताडिता सती सर्व स्वकृतचेष्टितं प्राह । राज्ञा सा खरमारोप्य पुरे भ्रमयित्वा स्वदेशानिर्गमिता । कुमारः प्रियाविरहाच्चतुर्विधाहारं त्यक्त्वा मर्तुकामो मौनेनाऽस्थात् । राजा राज्ञी चाऽपि तेन मर्तुकामौ जातो, तज्ज्ञात्वा पौरा अपि राज्यविनाशचिन्तया व्याकुला जाताः। अस्मिन्नवसरे पुस्तकहस्तः कोऽपि नैमित्तिकः सभां प्राप्तः । राज्ञा सादरं वधूस्वरूपं पृष्टः प्राह-‘सा जीवन्त्यस्ति, वर्षप्रान्ते कुमारस्य मिलिष्यति' । इति श्रुत्वा सर्वेऽपि समुज्जीविता इव परां प्रीति प्रापुः। इति श्रीअञ्चलगच्छे श्रीमाणिक्यसुन्दरसूरिकृतायां मलयसुन्दरीकथायां मलयसुन्दरीचशुरकुलसमागम- राक्षसी - कलापरित्यागवर्णनो नाम तृतीय उल्लासः। ॥४८॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy