________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी
कथा॥
॥४७॥
प्राह- 'हे वत्से ! अहं राजाऽऽदेशं विना तव पार्थे सुप्ता, अतो राजभटा मां हन्तुमायान्ति । किमपि गुप्तस्थानं दर्शय यथा तत्र प्रविशामि । तया मञ्जूषा दर्शिता । सा तादृग्रूपैव मध्ये प्रविष्टा, तालकं च दापितम् । अथ राजपुरुषा धावन्तो गृहमध्यमागतां मलयसुन्दरीमेव दृष्ट्वाऽचिन्तयन्- 'अहो ! अनया रूपं परावर्तितम् ! । अथ लोकान् कथं हनिष्यसि ?' इति वदन्तस्तां बलादाकृष्य बहिनीत्वा रथम् अध्यारोप्य रात्रावेव रौद्राटवीमध्ये मुक्त्वा वलिताः । प्रभाते राज्ञो मिलिताः । 'कार्य कृतमस्ति' इति प्रोक्तम् । राजा हष्टः । प्रोक्तं च - सा छिन्ननासा हितकारिणी वीक्ष्यताम् । सा वीक्षिताऽपि न लब्धा। राज्ञा वधूगृहे तालकानि दापितानि। .
अथ कियत्सु दिनेषु महाबलो भिल्लं जित्वा प्राप्तः । पितरं नत्वा स्वगृहं प्रति गच्छन् पित्रा बाहौ धृत्वा मलयसुन्दरीस्वरूपं बभाषे । तच्छ्रुत्वा वज्राऽऽहत इवाऽत्यन्तदुःखी असम्भाव्यं तच्चिन्तयंस्तं प्राह-'हे तात! धातुविपर्यासः किं तेऽभूत् ? । यद्यपि सा तादृशी दृष्टा, तथाऽपि ममागमं यावत् कथं न प्रतीक्षितम् ? । तात ! या स्त्री छिन्ननासा भूरिकूटानां निधिस्तन्मूलमहं पुराऽपि वेनि । सैव दर्श्यतां यथाऽहं तां पृच्छामि । राज्ञोक्तम्-‘सा तु न लभ्यते। ततः कुमारो निःश्वसन्निजगृहमागात् । पुत्रवत्सलो राजाऽपि तत्पृष्ठतः समेत्य प्राह-वत्स ! त्वद्वधू रात्री राक्षसीरूपेण भ्रमन्ती मया दृष्टा, तत ईदृशं दण्डं
॥४७॥