________________
श्रीजैन कथासंग्रहः
कुमार वर्तते तदाता लोकान् मन्ती दृश्यत
श्री मलयसुन्दरी
कथा।।
॥४६॥
इत्यपि किं न भूयते-'रक्खसाण वि भेसजं?" ततस्तया मुग्धया प्रोक्तम्-'मातः ! यथा रम्यं तथा कुर्याः। तत्रावसरे पुरमध्ये मार्युपद्रवं ज्ञात्वा सा दुष्टा प्रतीहारनिवेदिता राज्ञः पार्थ प्राप्ता प्राह-'प्रभो! यद्यवसरो वर्तते तदा किमपि हितं वच्मि । राज्ञा विजने पृष्टा-'किं हितम् ?। तयोक्तम्-'देव ! मलयसुन्दरी युष्मद्वधर्मारिर्जाता लोकान् हन्ति, न चेत् प्रत्ययस्तदा रात्रौ भवद्भिवीक्ष्यम् । यदि सा राक्षसीरूपेण स्वगृहाङ्गणे विवस्त्रा फेत्कारान् मुञ्चन्ती दृश्यते तदा सत्यं, नो चेन्न। तच्छुप्या सा प्रभाते निग्राह्या, रात्री निगृह्यमाणा कदाचिच्छलति। राज्ञोक्तम्-'त्वया न कस्यापि कथ्यम् । तयोक्तम्-'देव! अहं किम् अज्ञानाऽस्मि ? | ततः सा विसृष्टा गता। राक्षसीरूपसामग्री कृत्वा मलयसुन्दरीपार्थे रात्री गत्वा क्षणं विनम्योवाच-हे वत्से ! राक्षसी समेताऽस्ति, तस्या निर्माशाय गच्छामि । इत्युक्त्वा सा बहिर्गत्वा 'वर्णकचित्रितं राक्षसीरूपं कृत्वा विवस्त्रा मुखे ज्वलद् उल्मुकं धृत्वा फेत्कारान् मुञ्चन्ती बभ्राम। राजा प्रत्यासन्नवर्तिगृहोपरि स्थितस्तत्स्वरूपं दृष्ट्वा प्रत्ययमापन्नो रोषाद भटान् बभाषे-'भो भो भटा! एनां मलयसुन्दरीं राक्षस निगृहीत, रौद्राट: च नीत्वा विनाशयत यथा न कोऽपि वेत्ति' । ततो राज्ञाऽऽदिष्टा भटा धाविताः। तान् दृष्ट्वा सा दुष्टा नष्टा, गृहमध्यं च प्रविष्टा कम्पमाना मलयसुन्दरी प्रति १ राक्षसानामपि भेषजम् । २ हिगुल - पृष्टचन्दनादिविलेपनद्रव्यं वर्णकम् । ३ अारम्। '.
॥४६॥