SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥४५॥ किम् ? इति चिन्तयन्ती मलयसुन्दर्या भाषिता- 'मातः! अनभ्रा वृष्टिः ! कुतस्ते समागमः ? कथं युष्मन्नासाया इयमीद्दशी दुष्टावस्था ? कुमारेणोक्तम्- अलं प्रनेन, सर्वं कथयिष्याम्यहम्' । ततः सा तेन शून्यगृहे स्थापिता । अहमीदृशी ! वैरिणी च सुखं भुडे, भविष्यति च काऽपि वेला इति चिन्तयन्ती मलयसुन्दरीसमीपे नित्यं याति । एका ऋजुर्द्वितीया वक्रा, तया सा विश्वासवती कृता । अथ तस्या मलयसुन्दर्या गर्भसम्भवोऽभूत् । कुमारेण दोहदेषु पूर्यमाणेषु दिनेषु गच्छत्सु राज्ञा कुमार आदिष्टः- 'हे वत्स ! क्रूरनामा भिल्लः स्वदेशं क्लेशयति । त्वं सैन्येन गत्वा तं जित्वा समागच्छ' । स राजादेशं मान्यं कृत्वा आगत्य प्रियां प्रति प्राह; साऽवादीत्- 'नाथ ! अहमपि सहाऽऽगमिष्यामि' । तेनोक्तम्- 'साम्प्रतं ते स्थानचालको न युक्तः, अतोऽत्रैव तिष्ठ । त्वत्स्नेहप्रेरितः शीघ्रमागमिष्यामि' । इति कथञ्चिदनुज्ञाप्य भालतिलकगुटिकां तस्यै दत्त्वा ससैन्यश्चलितः । सा दिशां पश्यन्ती गृहे स्थिता। कनकवती समेत्य तां वार्ताविनोदैर्दिनं गमयामास । तयोक्तम् मातः ! त्वं रात्रावपि अत्रैव तिष्ठ, येन रात्रिरपि वार्ताभिः सुखेन मेऽतिक्रामति । तस्या वाञ्छितमेव जातम् । सा प्रपद्य रात्रौ तत्पार्श्वे सुष्वाप । अन्येद्युः प्राह- 'हे वत्से ! रात्रौ काऽपि राक्षसी समेति, यदि त्वं कथयेस्तदाऽहमपि तादृग् भूत्वा तां तर्जयामि यथा पुनर्नायाति । श्री मलयसुन्दरी कथा ॥ ॥४५॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy