________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी कथा॥
॥४४॥
प्रतीहारनिवेदिता सा छिन्त्रनासा समेता, आशिषं च दत्त्वा निविष्टा । स प्राह-'कथ्यतां स्वस्वरूपम् । साऽवक्-श्रूयतां, चन्द्रावतीशवीरधवलस्याहं भार्या कनकवती । केनाप्येवमेव नृपमनसि कोपोऽभूत्, अहं नष्टा, मगमावेश्यागृहं प्रविष्टा । तत्र केनापि धूर्तेन भट्टारिकागृहं सकेतस्थानमानीता। तत्र तेनोक्तम्'अत्र चौराः सन्ति इति। ततोऽहं भयभीता मचायां क्षिप्ता, मम पाल्लिक्ष्मीपुञ्जहारं दुकूलानि चाऽग्रहीत् । तालकं दत्त्वा तेनान्यः कोऽपि धूर्त आहूतः, ततस्ताभ्यां मञ्जूषोत्पाट्य नद्यां प्रवाहिता। सा प्रातरत्र ते पुरे प्राप्ता, लोभसारेण चौरेण सा दृष्टा निष्काशिताच। तालकमुद्घाटितं तेन, अहं दृष्टा, अलम्बाद्रिगुहायां गुप्तगृहे च नीता । तत्र तेन स्तोकवेलया महान् स्नेहो दर्शितः । ततः स चौरस्तृतीययामे पुरमभ्यं प्राप्तः, तलारक्षरुपलक्ष्य गृहीतः, सायं निपातितः। वटे चोल्लम्बितो मया शैलङ्गस्थया दृष्टः । स्नेहप्रेरिता चाहं तत्राऽऽगता पश्यन्ती रोदितुं प्रवृत्ता। अग्रे वार्ता त्वं जानासि । अथागम्यतां यथा चौरस्थानं दर्शयामि"। ततः कुमारस्तां सह गृहीत्वा पितुः पार्श्व गतः । सा वार्ता ज्ञापिता । राज्ञा तत्कथिते स्थाने गत्वा यस्य यद्वस्तु तस्य तदर्पितं, शेषं स्वकोशे क्षिप्तम् । तस्या निवासाय राजकुलासन्नं गृहं दापितम् । सा कुमाराऽऽवासं पुनरागता। तत्र मलयसुन्दरी हारभूषितां दृष्ट्वा कुतोऽसौ वैरिणी प्राप्ता?, कूपे पतिता कथं जीविता? कथमनेन परिणीता? कथमस्या हारश्चटितः ? याभ्यां वाऽहं प्रवाहिता तावपि एतावेव
॥४४॥