________________
श्रीजैन
कथासंग्रहः
॥४३॥
तन्मुखे स्थितं सैव अशुद्धता घटते' । पुरुषैर्मृतकं वीक्षितं, तथैव दृष्टम् । ततः कुमारेण मन्त्रसाधनस्थानं दर्शितम्, तत्र वह्निकुण्डे योगी स्वर्णपुरुषो दृष्टः, राज्ञा गृहीतः ।
अथ राजा मलयसुन्दरीसहितं स्वपुत्रं गृहीत्वा महोत्सवेन स्वसौधं प्राप्तः । दश दिनानि महोत्सवा जाताः । मलयकेतुरपि भगिनीं भगिनीपतिं च शोधयन् तत्र समेत्य भूपं नत्वा निविष्टः । पृष्टः सन् आगमनकारणं प्राह । राज्ञा स्वरूपे प्रोक्ते प्रमुदितो भगिन्या महाबलस्य च मिलितः । परस्परं वार्तालापो जातः । कियन्ति दिनानि सगौरवं स्थित्वा कथञ्चित् सर्वान् अनुज्ञाप्य मलयकेतुश्चलितश्चन्द्रावर्ती पुरीं प्राप । तत्र स्वरूपे प्रोक्ते सर्वः कोऽपि प्रमुदितः । पृथ्वीस्थानपुरे महाबलस्य मलयसुन्दर्या सह क्रीडतः सतः सुखेन कालोऽतिचक्राम ।
अन्यदा महाबलो मलयसुन्दरी च गवाक्षनिविष्टौ स्वगृहद्वारागतां तां छिन्ननासिकां ददृशतुः । तां दृष्ट्वा सम्यगुपलक्ष्य च प्रिया प्रियं प्रति प्राह- 'प्राणेश ! एषा ममापरमाता कनकवती । कुमारेणोक्तम्'यस्यारुदितं श्रुत्वा त्वां कदलीगृहे मुक्त्वा चलितोऽहं सैवेयम्, ततोऽहं स्वरूपं पृच्छामि। प्रिययोक्तम्'अहं तवाऽऽदेशाद् जवनिकान्तरिता शृणोमि । ततः कुमारेण तस्याम् 'अपव्यन्तरे स्थापितायां १ जवनिकान्तः ।
श्री मलयसुन्दरी
कथा ।।
॥४३॥