________________
श्रीजैन कथासंग्रहः
॥४२॥
राजाऽपि ज्ञास्यति तदाऽनर्थों भविता । अतो यदि त्वं कथयसि तदा ते रूपपरावर्त करोमि । कुमारेण हारं मुखे क्षिप्त्वा कथिते सति योगिना किमप्यौषधं घृष्ट्वा भाले तिलकं कृतम् । कुमारः सर्पो जातः, अलम्बाद्रिगुहायां योगिना मुक्तः, स्वयं च स्वकार्ये प्रवृत्तः । ततः सर्पः सर्पधरैर्गृहीत्वा घटे क्षिप्त्वा यक्षrssलयं नीतः । दिव्ये क्रियमाणे निजप्रियामुपलक्ष्य हारो मुखान्निष्काश्य तत्कण्ठे क्षिप्तः, भालं च स्पृष्ट्वा स्त्रीरूपा कृता, गारुडिकैः सर्पश्च स्थाने मुक्तः । रात्रिमुखेऽर्क क्षीरेण ललाटं घृष्ट्वा कुमारो योगिना पुरुषरूपः कृतः । ततस्तौ श्मशानं गतौ । कुमारेण मृतकमानीतं योगिना स्नपितं, चर्चितं, मण्डले च स्थापितम् । अग्निकुण्डं ज्वालयित्वा मन्त्रं स्मर्तु लग्नः । शवः पुनरुल्ललति, पतति च । एवमर्धरात्रिर्जाता तावता आकाशे डमरुशब्दा जाताः । तदा कापि देवता समेता प्राह-रे ! कुशुद्धं मृतकं, स्वर्णपुरुषो न सिध्यति' । इत्युक्त्वा तया कुपितया योगी वह्निकुण्डे क्षिप्तः । शवो वटमेव गतः । एनं सुरूपं को हन्ति ? इति वदन्त्या देवतया नागपाशेन हस्ती बद्ध्वा कुमारो बटे उल्लम्बितः । कुमारेण सर्पपुच्छं दन्तैश्चर्वितम् । सर्पो बन्धाद् उच्चलितो गतः, परं बाहुस्थितौषधप्रभावादू विषं न चटितम् । अग्रे च तत्स्वरूपं ज्ञातमेव । एवंविधं स्वरूपं कुमारेणोक्तं श्रुत्वा राजा लोकाश्च प्राहुः- अहो ! शृण्वतामपि भयं जायते कुमारेण कथमनुभूतम् ?' एके प्राहुः- 'मृतकं किमशुद्धं कथितम् ?' । राज्ञोक्तम्- 'यत् स्त्रीनासाग्रं
श्री मलयसुन्दरी
कथा ॥
॥४२॥