________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी
कथा॥
॥४१॥
, प्राप्तुं न शक्नोमि, ततो रोदिमि' । कुमारेणोक्तम्-'तर्हि मम स्कन्धमारुह्य वाञ्छितं कुरु' । ततः सा तस्य
स्कन्धमारूढा शवमुखं मुखेन स्पष्टुं लग्ना, तदा शवेन तस्या नासिका मुखेन गृहीता। तस्याः सीत्कारं कुर्वत्या इतस्ततो मुखं कुर्वत्या नासा त्रुटिता, अग्रभागः शवमुखे स्थितः । अथ कुमारस्य तत्पश्यतो हास्यमागतं, तदा शवेनोक्तम्-'हे ! हास्यं मा कुरु, त्वमप्यत्रैव वटे उल्लम्बयिष्यसि । अस्मिन्नवसरे राज्ञोक्तम्-'वत्स ! शवः कथं वक्ति ?' । तेनोक्तम्-'तात ! कोऽपि व्यन्तरो वक्ति' । ततः 'स भीत: स्थितः । साऽपि तस्य स्कन्धादुत्तीर्णा पप्रच्छ-'कस्त्वम् ? व वससि?' । कुमारेण स्वस्वरूपे प्रोक्ते साऽपि प्राह-'नासायां रूढायां सत्याम् अहं ते मिलिष्यामि, चौरहतं च सर्व दास्यामि । ततः सा गता। कुमारो वटोपरि चटित्वा शवबन्थान् छोटयित्वा तत्केशान् गृहीत्वा उत्तीर्य शवं स्कन्धे कृत्वा योगिनः पार्थे मुमोच । ततो योगी शवं स्नपयित्वा चन्दनद्रवैश्चर्चित्वा अग्निकुण्डसमीपे मण्डलं स्थापयित्वा मन्त्रं सस्मार। शव उल्ललति, परं वह्निकुण्डे न पतति। एवं रावेरतिक्रमे शवोऽट्टाहासं मुञ्चस्तत्रैव वटे गतः । योगिनोक्तम्- “किमपि मे स्खलनमागतं, ततः कार्यन सिद्धम् । पुनरागामिन्या रात्री साधयिष्यते
परं यदि दिने कोऽपि त्वां मम पार्श्वे द्रक्ष्यति तदा स चिन्तयिष्यति-'योगी राजकुमारं विप्रतार्य याति। रकुमारः।
॥४१॥