________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी
कथा॥
॥४०॥
गतास्तावता केनापि पुरुषेण शीघ्रमागत्योक्तम्-'देव ! स चौर उद्धोऽस्ति, तस्मिन्नेव बटे महाबलकुमारोऽपि उल्लम्बितोऽस्ति । राजा राज्ञी च तच्छुत्वा वत्स वत्स' ! इति कुर्वाणी लोकेन सह धावितौ। तंतादृशावस्वं राजा स्वपुरुषैश्छोटयामास । जलसेचनेन तस्य चेतना बालिता, नेत्रे उन्मीलिते । अथ कुमारः स्वस्थो निविश्य प्रणमन् तातं प्रति प्राह-'तात! किमिदम् ?' । तेनोक्तम् - 'वत्स! तव किमिदं स्वरूपम् ? । सोऽवादीत्-तात! श्रूयताम् । ततः कुमारेण मूलत: सर्वस्वरूपं कथितम् । यदा मलयसुन्दरीकदलीगृहे मुक्ता, रुदितानुसारेण बगतस्तत्कथ्यमानमस्ति तदा कुमारोऽग्रे गच्छन् श्मशाने योगिनं ददर्श। सोऽपि योगी कुमारं दृष्टा अभ्युत्थानं कृत्वा प्राह-'भो वीरेन्द्र ! मया सर्वाऽपि सामग्री मेलिताऽस्ति, किन्तु त्वं सहायक उत्तरसाधको भव यथा स्वर्णपुरुषः सिध्यति । कुमारेण प्रपन्ने स प्राह-यत्र तहिं नारी रोदिति तत्र वटे चौर उल्लम्बित: सल्लक्षणो वर्तते तमानय । ततः कुमारो वटतलं गत्वा तां रुदर्ती स्त्री प्राह-'हे भद्रे! का त्वं रोदिषि?' साऽवादीत्-हे सत्पुरुष! यो वटे बद्धो दृश्यते स चौरो मे भर्ता। अहमपि प्रातरेव अच मिलिता, परं महान् स्नेहोऽभूत् । एव च अह्वस्तृतीययामे तलारः कापि लब्धः, राज्ञा च घातितः । अहं स्नेहेनाऽऽगताऽस्मि, जाने अस्य मुखं चन्दनेन विलिम्पामि । परम् एनं
॥४०॥