________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी
कथा॥
॥३९॥
• कृत्वा सर्पो निष्काशितः। स सर्पो रजुसदृशो हृदयाग्रे हस्ते धृतः । तेन सर्पण स्वमुखाद् लक्ष्मीपुञ्जहारो निष्काश्य तत्कण्ठे क्षिप्तः, जिह्वया च तस्या ललाटं स्पृष्ट्वा सा स्त्रीरूपा कृता। सर्वेऽपि चमत्कृताः। सर्पस्तस्याः शिरसि फणां कृत्वा स्थितः । राज्ञोक्तम्-नूनं कोऽपि देवोऽयं दानवो वाऽन्यो वा सिद्धः सर्परूपेण खेलति, स्वस्थाने मुच्यताम् । अथ क्षमयित्वा दुग्धं पाययित्वास पर्वते मोचितः । ततो नृपेण सा स्त्री भाषिता-त्वं का?, कुतोऽयं ते हारः ? तयोक्तम्-'अहं चन्द्रावतीशवीरधवलस्य सुताऽस्मि, सर्परूपं तु सम्यग् न वेधि' । ततो राजा देवी भणति-'एषा कथयति, परं न मन्यते । कथं वीरधवलसुता एकाकिनी समेति ? यदि कदाचित् तस्य कान्ता भविष्यति तदा कोऽपि पृष्ठत आगमिष्यति; अत एनां लात्वाऽन्तःपुरं गच्छ । हारो लब्धोऽस्ति पञ्चदिनान्तः, ततो मृत्युकदाग्रहो न कर्तव्यः' । देवी प्राह'हारेण किं करोमि यदि पुत्ररत्नं गतम् ?'राज्ञोक्तम्- 'तथाऽपि प्रातर्यावन्न वक्तव्यम् तावता पुत्रशुद्धिरपि भविष्यति' । ततो देवी मलयसुन्दरीं सह लात्वा सौधं प्राप्ता। राजाऽपि स्वस्थानमाप । पुत्रवीक्षणपरस्य राज्ञी राज्याच महता कष्टेन प्रभातं जातम् । देव्या कथितम्-'पुत्रस्तावन्न लेभे, अथाहं मरिष्ये, मदर्थ सोऽपि गतः !' । ततो राज्ञी राजा बहवो लोकाश्च भृगुपातकरणाय पर्वतं प्रति चलिताः । यावत्तत्र १मलयसुन्दरी। २ पुत्रस्य।
॥३९॥