________________
श्रीजैन कथासंग्रहः
|३८||
?' । सा तदा तमेव लोकं स्मर्तु लग्ना, तावताऽमात्येनोक्तम्- 'प्रभो ! रूपवान् सरलः कोऽपि नरोऽयं दृश्यते; ततः सम्यग् न ज्ञातः कथं हन्यते ?, ततोऽयं दिव्यं कार्यंते, यदि न शुध्यति तदा हन्यते, इत्थं कृते जनापवादोऽपि न स्यात्' । राज्ञोक्तम्- 'भव्यम्, तर्हि कार्यते किं दिव्यम् ?' । सर्वैरपि प्रोक्तम्'घटसर्पदिव्यं महत्तरम्' । ततो राज्ञा आभरणादिकं लात्वा तलारक्षैर्वेष्टिता धनञ्जययक्षस्य गृहं प्रति चालिता । स्वयमपि यावच्चलति तावता चेटी प्राप्ता प्राह- 'प्रभो! देवी कथयति न हारो न कुमारोऽपि प्राप्तः । पञ्चमं दिनमद्य जातं, ततोऽलम्बाद्री गत्वा 'भृगुपातं करिष्यामि' । राज्ञोक्तम्- 'देव्या अग्रे त्वं कथय- कोऽपि पुत्रस्य मित्रं शत्रुर्वा समेतोऽस्ति, पुत्राऽऽभरणादिकं चटितमस्ति स पुमान् दिव्यं कार्यमाणोऽस्ति, भटा अपि पुत्रवीक्षणाय प्रेषिताः सन्ति, ममापि सदृशमेव दुःखमस्ति, ततस्तत्स्वरूपवीक्षणं यावत् प्रतीक्षस्व' । राज्ञेत्युक्त्वा कुमाराभरणादिकं दत्त्वा चेटी प्रेषिता । सा च देवीं प्रति तत्सर्वं कथयामास। देवी तच्छ्रुत्वा आभरणादिकं च दृष्ट्वा हर्ष - शोकाऽऽकुला तत्पुरुषवीक्षणाय सपरिवारा यक्षगृहं प्राप्ता । राजाऽपि प्राप्तः, लोकाश्च मिलिताः । राज्ञा गारुडिकाः सर्पग्रहणाय प्रेषिता अलम्बाद्रिमध्याद् महासर्पमानिन्युः; स च घटे क्षिप्तः । मलयसुन्दर्या पुंरूपया स्नानं कृत्वा परमेष्ठिस्मरणं १ पर्वतशृङ्गपतनम् ।
श्री मलयसुन्दरी
कथा ॥
॥३८॥