SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥३७॥ चिन्तितम्- 'पित्रोर्मिलनायोत्कण्ठितः स मध्ये गतो भविष्यति, ततोऽहमपि पुरमध्यं यामि' । इति विचिन्त्य चलिता प्रतोलीद्वारं प्राप्तां । रक्षपालेनोक्ता- 'भोः कस्त्वं नव्यो वीक्ष्यः ?' | परं किमप्यस्यामब्रुवाणायां रक्षपालेनेतरैश्च सम्यगालोक्य प्रोचे- 'भो ! महाबलनामाङ्किते अस्य कर्णयोः कुण्डले, तस्यैव च वस्त्राणि, कोऽपि चौरोऽयं तन्मित्रं वा' । ततस्तां भूपपार्श्व नीत्वा स्वरूपं च तैः प्रोक्तम् । ततो राज्ञा सूरपालेनापि पृष्टम्; परं तया चिन्तितम्- 'पाश्चात्यमसम्भाव्यं कथितं न कोऽपि प्रत्येष्यति, अतो मौनतया स्थेयम्' । इति विचिन्त्यासौ मौनेन स्थिता । पुनः पुनः पृच्छ्यमानाऽवादीत्'महाबलो मे मित्रं, तेनाऽऽभरणादिकं दत्तम्' । राज्ञोक्तम्- 'तर्हि स क्वास्ति ?' । तयोक्तम्- 'सोऽत्रैव 'क्वापि स्वेच्छया चरन्नस्ति' । राज्ञा चिन्तितम्- 'यदि पुत्रस्य मित्रं भवेत् तदा कोऽप्येनं नोपलक्षयेत् ? । कुमारोऽप्यत्रैव पुरे स्थित इत्ययं वदति, परं स तु क्वापि नोपलभ्यते !, ततोऽयं न घटते तन्मित्रं, परन्तु येन कुमारस्य वस्त्र-कुण्डालदिकं हतमासीत् स एवायं चौरः । अथवा यो लोभसाराभिधचौरो वटवृक्षे उद्वद्धस्तस्यैव भ्राता सम्बन्धी वा । नूनमेतैरेव मम पुत्रोऽपि हतो घटते' । इति विचिन्त्य तलारक्षेण प्रकटा चिन्तितवार्ता कथापिता । सर्वैरपि कथितम्- 'सत्यमेव, अल्पवक्तारचौराः स्युः' । राज्ञोक्तम्- 'सोऽयं मे वैरी बहिनीत्वा हन्यताम्' । इति श्रुत्वा मलयसुन्दर्या चिन्तितम्- 'विषमं सङ्कटं पतितं किं करिष्यते श्री मलयसुन्दरी कथा ॥ ॥३७॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy