SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी कथा॥ ॥३६॥ राजी, महाबलः पुत्रः । तेन लक्ष्मीपुञ्जहारस्य पञ्चदिनान्तर्वालनकृते प्रतिज्ञा कृताऽऽसीत् । मात्राऽपि व प्रोक्तमासीत्-'यदि पञ्चदिनान्तहरिं न लप्स्ये तदा मरिष्यामि । परं कुमारस्य शुद्धिरपि नास्ति । कल्ये पञ्चमं दिनम् । साराज्ञीजला-नि-विषादिना केनापि प्रकारेण मरिष्यति, तस्याः पृष्ठे राजाऽपि मरिष्यति, तनु जना अपि मरिष्यन्ति । तच्छुत्वा कुमारोऽचिन्तयत्-'हा! किंभावि ?, मयि जीवति सर्व कुलं विसंस्थुलं भावि!'। तस्मिन्नेवं चिन्तयति भूतेनोक्तम्-'भोश्चलत सर्वेऽपि, तत्र गम्यते । केनापि भूतेनोक्तम्'किमपि यानं वीक्ष्यते । केनापि कथितम्-'वट एव यानम् । ततः सर्वैरपि हुङ्कारो मुक्तः, वट उत्पतितः। तत्कोटरस्थौ तावपि चलिती। क्षणेन स बटः पृथ्वीस्थानपुरेऽलम्बशैलाभिधानगिरिसमीपे स्थितः । कुमारस्तां भूमिमुपलक्ष्य प्रियां प्रति प्राह-'प्रिये ! जाग्रति पुण्यानि, सेयं मम जन्मभूमिः, वटकोटरं त्यज्यते, वटोऽन्यत्र मा व्रजतु' । ततस्तौ कोटरान्निर्गत्य कदलीगृहं गतौ । तत्र स्थिताभ्यां ताभ्यां पुनरपि वट उत्पतन् दृष्टः । कुमारेणोक्तम्-'वटः पुनः स्वस्थानं याति, भव्यं कृतमावां कोटरान्निर्गती। अथ कुमारेण स्त्रीरुदितं श्रुत्वा प्रिया प्रोचे-काऽपि स्त्री रोदिति, दुःखं स्फेटयामि । तस्यां वारयन्त्यामपि स्वीयोत्तरीय-कुण्डलादिकं दत्त्वा हारे कटीस्थे एव सोऽचलत् । सा मलयसुन्दरी पुंरुपा रम्भागृहेऽस्थात् । तया तन्मार्ग पश्यन्त्या एव चिन्तया रात्रिरतिक्रान्ता, परं कुमारो नागात् । अथ तया ॥३६॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy