________________
.. राजा तच्छुत्वा साधु साधु' इति वदन् तदुद्धिं प्रशंसयन् मलयकेतुकुमारं पृथ्वीस्थानपुरं प्रति प्रेषयामास
श्रीजैन
श्री मलयसुन्दरी
कथा॥
॥ इति श्रीमहालगच्छे श्रीमाणिक्यसुन्दरसूरिविरचितायां मलयसुन्दरीकथायां
पाणिग्रहणवर्णनो नाम द्वितीय उल्लासः ॥
अथ तृतीय उल्लासः। अथ कुमारः कान्तया सह तदा बहिर्निर्गतः। प्रियां प्राह-रात्री बहिः स्त्रीणां भ्रमणं न युक्तम् । इत्युक्त्वा आमरसेन गुटिकां घृष्ठा तस्या भाले तिलकं कृतम् । सा पुंरूपा तेन कृता। ततस्तौ देवकुलं गत्वा तं चौरं शिखरानिष्काशयामासतुः । कुमारेणोक्तम्-'भोः ! त्वदीयाः सहायका मयोत्तरं कृत्वा अन्यत्र प्रेरिताः सन्ति, त्वं यथेच्छं व्रज'। सोऽपि हृष्टो गतः। अथ तौ पुरो गच्छन्तौ वटोपरि वार्तालापं शवतुः । कुमारेणोक्तम्-'प्रिये ! निःसञ्चलतया भाव्यम् । केपि बटोपरि वातां कुर्वन्ति । तदा लक्ष्मीपुजहारः स्वकीयकट्यां स्थापितः। तौ बटकोटरे प्रविश्य निश्चली स्थिती। तदा वटोपरिस्थ एको भूतोऽपरान् प्राह-"भोः! प्रातर्महत्कौतुकं वर्तते, शृणुत-पृथ्वीस्थानपुरे सूरपालो नाम राजा, पद्मावती
॥३५॥