________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी
कथा।।
॥३४॥
प्रच्छन्नस्थितो यादृशं दृष्टवान् तादृशं कथयन्त्रस्मि-तेन रक्षपालेन तालकं भक्त्वा मम्जूषा उद्घाटिता, सारं वस्तु च दृषछा मां नदीजले क्षिप्त्वा मध्ये प्रविश्य तां तारयामास । एवं कुर्वन् दृष्टः, ततोऽहं न वेचि' । इति श्रुत्वा ते तस्करा नदीतटं प्रति धाविताः । कुमारेण च स्तम्भरक्षां कुर्वता रात्रिरतिक्रान्ता। प्रातः स्तम्भः पुरमध्ये मण्डपे स्थापितः । अग्रेतनं सर्व स्वरूपम् एवं कुमारस्य कुमार्याश्च पूर्वस्वरूपं प्रोक्तम्। अथ कुमारेण प्रोक्तम्-'हाहा! देवकुलशिखरस्थितश्चौरोमरिष्यति, अहं गत्वा तं निष्काशयामि' । कुमार्योक्तम्- 'प्राणेश! अहमपि सहैव आगमिष्यामि। ततो वेगवत्या अग्रे प्रोच्य तौ द्वावपि चलितो । राजा नरेश्वरान् बहु मानयामास, परं ते प्रोचुः- वयं प्रातस्तं महाबलं हत्वा त्वत्सुतां गृहीत्वैव यास्यामः, नान्यथा' । राजा तन्निश्चयं ज्ञात्वा त्वरितं करी सज्जीकृत्य कुमारचालनाय कृतनिर्णयस्तत्रागात् । तौ अदृष्ट्वा राजा पृष्टे वेगवत्योक्तम्-'कुमार्योक्तं यद् मया देव्या उपयाचितकं कृतमस्ति, ततस्तौ बहिर्गतौ। तच्छ्रुत्वा राजा क्षणं प्रतीक्ष्य बभाषे-'अद्यापि तौ नायाती, किं कारणम् ? तौ सर्वत्र पुरमध्ये विलोकिती, परं न लब्धौ । प्रभाते स्वयंवरायाता नृपा अपि तत्स्वरूपं ज्ञात्वा विलक्षाः स्वस्वपुरं प्रति चलिताः । राजा राज्ञी च चिन्ताम्भोधिमग्नौ वेगवत्या भाषितौ-'किं दुःखेन धृतेन ? तौ केनापि अपहृतौ घटेते, अतो गिरि-वनादिषु शोध्येते। पृथ्वीस्थानपुरे च सूरपालभूपस्यापि ज्ञाप्यते, यतः सोऽपि विलोकते।
॥३४॥