________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी
कथा॥
॥३३॥
*. अहमने भूत्वा समेताऽस्मि । कुमारेणोक्तम्-'अहं देवकुले पाश्चात्यभागे तिष्ठन्नस्मि । अत्र साम्प्रतं
तस्कराः समेता आसन्, सावधानतया भाव्यम्' । इत्युक्त्वा महाबलोऽदृष्टो भूतः । तावता कनकवती तत्राऽऽयाता बभावे-'क ते मित्रम्' ? । तयोक्तम्- 'मैवं वद, निभृता तिष्ठ, अब केऽपि प्रत्यासन्ने तस्कराः सन्ति। सा भीताऽभाणीत्-रक्ष्यतां मम हारादिकं, ते ग्रहीष्यन्ति।' कुमार्योक्तम्-'मा भैषीः, एका मपात्र वर्तते, मम हस्ते सारदुकूल-हारादिकं समर्प्य त्वं मध्ये प्रविश यावत् तस्करा यान्ति'। तया तथैव कृतम्। सामञ्जूषामध्ये प्रविष्टा। कुमार्या तालकं दत्त्वा कुमार आहूतः। ताभ्यांद्वाभ्यामुत्पाट्य मञ्जूषा गोलानदीजले प्रवाहिता। वैरं वालितम् । ततः कुमारेण कुमारी ललाटें निष्ठयूतेन स्पृष्ट्वा पूंरूपा चक्रे । चन्दनेन अर्चित्वा हार-दुकूलभूषितां च कृत्वा सजीकृतफालीमध्ये स्वापिता। 'यदाऽहं वीणां वादयित्वा बाणं मुश्चामि तदा त्वया एता नष्टाः कीलिकाश्चालनीयाः, फालीद्वयं विघटिष्यते' इत्युक्त्वा द्वितीया फाली तदुपरि स्थापिता। ततः कुमारेण सस्तम्भश्चित्रितस्तथा यथा सन्धिरपि न ज्ञायते । तस्य तत्र तिष्ठतस्ते तस्कराः पुरमभ्यात् प्राप्ताः । स्वां मञ्जूषां रक्षपालं च अदृष्ट्वा तत्स्वरूपं कुमारस्याग्रे प्रोच्य पुनः पप्रच्छु:- 'सक?। तेनोक्तम्- 'पूर्व मदीयमेकं कार्य कुरुत, पश्चात् कथयामि । तैरुक्तम्- किं ते कार्यम् ? । तेनोक्तम्- स्तम्भमेतमुत्पाट्य प्रतोलीप्रवेशं नयत' । तैस्तथा कृते सोऽवादीत्-अहं
॥३३॥