________________
श्रीजैन कथासंग्रहः
श्री मलंयसुन्दरी
कथा॥
॥३२॥
ग्राहाम् ! । इत्युक्त्वा हसित्वाऽहं मगधया सह चलिता। लोका अपि हसन्तो गताः । स ब वराकः सर्पदष्टस्तोतलागृहं प्रति चलितः । अहं तया संह चलिता तद्गृहद्वारं प्राप्ता तां प्रत्यूचे- 'हे मग! तव गृहे किमपि राजविरुद्धं मानुषं वर्तते ? इति श्रुत्वा मगधा मत्पादयोलमा 'हे सत्पुरुष! त्वं ज्ञानी वर्तसे। मद्गृहे कनकवती राजपत्नी राजद्विषा पूर्वपरिचयेन प्राप्ताऽस्ति। सा ज्वलन्ती गडरिकेव मया दाक्षिण्येन स्थापिताऽस्ति। तां कथञ्चित् त्वमेव निष्काशय, त्वया न कस्याग्रे वाच्यम् । मयोक्तम्-न वक्ष्ये, सा मम मेलनीया । ततोऽहं तया मध्ये नीत्वा स्नान-भोजनादिकं कारिता । रात्री कनकवती तया मम समीपमानीता। सा मां दृष्ट्वा हास्यादिकं कुर्वती स्वकीयभावं प्रकाशयामास । पप्रच्छ च-'कस्त्वम् ?' । मयोक्तम्-क्षत्रियोऽहम् । मम मित्रं रूपनिर्जितभवनं बहिर्वर्तते, त्वं का?' ततः सा सर्व स्वस्वरूपं प्राह, मयोक्तम्, यदि पतिमिच्छसि तदा तद् मन्मित्रं कुरु । यत् तवाऽऽभरणादिकं तद् दर्शय । तया सर्व दर्शयित्वोक्तम्-'लक्ष्मीपुञ्जहारश्च- तुष्पथस्थितकीर्तिस्तम्भासन्ने न्यस्तोऽस्ति। साम्प्रतं मध्यरात्रिर्जाता, प्रातस्तु दिनेऽहं प्रकटं तत्र गन्तुं न शक्नोमि, सन्ध्यासमये प्रदोषे एव त्वया सह मित्रपार्थे नेष्यामि। इत्युक्त्वा स्थिता। अहमपि सुखेन सुष्वाप । प्रभाते मया कीर्तिस्तम्भस्थाने हारो विलोकितः, परं न लमः । सायं मयोक्तम् -'आगच्छ, गम्यते । ततः सा वेश्यागृहानिर्गत्य तं हारं गृहीत्वा आगच्छति,
॥३२॥