________________
श्रीजैन कथासंग्रहः
॥३१॥
प्रत्यासन्नवटकोटरे प्रविष्टः । तत्र देवताहृतं स्वीयं वस्त्राभरणादिकं दृष्टम् । तेन आश्चर्य बिभ्रता सर्व संगृहीतम् । तत्र च मलयसुन्दरीं समागच्छन्तीं दृष्ट्वा स वटकोटराद् निर्गत्य तस्या मिलितः । तया चोक्तम्- 'कनकवती त्वां पतिमिच्छन्ती समेति । कुमारेणोक्तम्- तन्मुखमपि द्रष्टुं न युक्तं, परं स्वस्वरूपं कथय इत्युक्ते कुमारी प्राह- "मया तवाऽऽदेशेन पुरमध्ये मगधागृहं पृच्छन्त्या क्वापि देवकुले स्थिता मगधा दृष्टा । केनाप्युक्तम्- 'सेयं मगधा, परं केनापि धूर्तेन सङ्कटे पातिताऽस्ति । मया समीपे गत्वा प्रोक्तम्- 'भद्रे ! किं ते सङ्कटम् ? । तयोक्तम्- "शृणु, निजगृहाङ्गणस्थया एष पुमान् मया हास्येन प्रोक्त:- " ममाङ्गं दुःखयति, क्षणं संवाहय, अहं किञ्चन ते दास्यामि' । स क्षणं संवाह्य गन्तुं प्रवृत्तो मां बभाषे - 'मम किञ्चन देहि' । अहं वस्त्रं द्रम्मशतादिकं च दातुं प्रवृत्ता, परम् एष किञ्चन याचते । किञ्चनशब्देन किं दीयते ?, अतोऽनेन अत्र देवकुले रुद्धा स्थापिताऽस्मि । इति वेश्योक्तं श्रुत्वा मया स धूर्तोऽपि प्रोक्त:- 'भो ! मध्याह्ने तु भवतोर्विवादो भक्ष्यते' इत्युक्त्वा द्वावपि मया प्रेषितौ । मया ततः सर्पग्राहिणां पार्श्वात् सर्प गृहीत्वा घटान्तः क्षिप्त्वा स घटस्तत्रैव देवकुलमध्ये मुक्तः । वेश्या धूर्तो लोकाश्च कौतुकेनायाताः । मयोक्तम्-भो! घटमध्ये तव दातव्यं वर्तते, त्वं गृहाण । तेन घटमध्ये हस्तः क्षिप्त:, सर्पेण च झाट्कारितः । प्राह च भो! मध्ये किञ्चन विद्यते' । वेश्यया मया चोक्तम्- 'तर्हि त्वया
श्री मलयसुन्दरी कथा ॥
॥३१॥