________________
श्रीजैन कथासंग्रहः
॥३०॥
राजा निर्गतः । अथ कुमारः प्रियापार्श्वे प्रकटं हारस्वरूपं यावत् पृच्छति तावद् एका महल्लिका तत्र प्राप्ता । कुमारः प्रनं कुर्वन् स्थितः । मलयसुन्दर्योक्तम्- 'एषा वेगवती मे धात्री रहस्यस्थानम्' । ततः सा निविश्य ती प्रति प्राह- 'किमिदम् आश्चर्यम् ? सत्यं कथ्यताम् । पूर्व कुमारेण स्वस्वरूपं कथितं, यावद्
मिलितौ । ततः कुमारी पुंरूपा मगधागृहं प्रति चलिता। कुमारस्तु नैमित्तिकवेषेण निमित्तं कथयित्वा राजानं चितां प्रविशन्तं निवार्य गृहं नीत्वा तद्दत्तद्रविणेन रात्रीतक्षण उपकरणानि 'वर्णकादिकं च गृहीत्वा बहिर्गत्वा भट्टारिकागृहे तत्फालीद्वयं तक्षित्वा रम्यमकार्षीत् । तावत् तत्र केऽपि तस्करा मञ्जूषामेकां तत्र मुक्त्वा रक्षपालं च मुक्त्वा पुनः पुरमध्यं गताः । रक्षपाल एव मञ्जूषातालकम् उद्घाटयितुं प्रवृत्तः, परं नोद्घटते । तदा कुमारेण चौरसंज्ञा कृता । तेन आहूतः । सोऽपि तस्य मिलितः, तालकमुद्घाटितं च । रक्षपालेन सारं वस्तु निष्काश्यं पोट्टलके बद्ध्वा प्रोक्तम्- 'हे मित्र ! यद्यहं पोट्टलकं गृहीत्वा यास्यामि, यदि च ते तस्करा मम पृष्ठं करिष्यन्ति तदा मां हत्वा सर्व ग्रहीष्यन्ति । ततः किमपि दर्शय स्थानं यत्र कियत वेलां सुखेन तिष्ठामि । तेषु चौरेषु च गतेषु अहमपि यास्यामि' । इत्युक्ते कुमारेण देवकुलस्य पद्यशिलामुत्पाट्य पोट्टलकयुक्तश्चौरो मध्ये क्षिप्तः । शिला तथैव कृता । कुमारः १ वर्षके: - त्वष्टुः । २ हिगुल- चन्दनादिकम् ।
श्री मलयसुन्दरी
कथा ॥
॥३०॥