________________
श्रीजैन
श्री मलयसुन्दरी
कबा॥
कथासंग्रहः
॥२९॥
क: कोपः। ततो विशेषतो रोपाऽरुणा: सैन्यानि सजयामासुः । राज्ञोम् - नैमित्तिकवचः सर्वमपि मिलितम् । परं सूरपालनृपसुतोवरो नाऽभूत्, यः पुनर्महाबलो बलवानेव कोऽपि कथितः। इति श्रुत्वा वैणिको मनसि हसन् वज्रसारमेव धनुर्गृहीत्वा शरान् वर्षयन् नृपाणां सम्मुखोऽभूत् । राजाऽपि तस्य परितः ससैन्यो योदंडुडोके । ततः कुमारेण सर्वे भूभूजो भनाः पलायितुं लगाः । तदा केनापि भट्टेन कुमारमुपलक्ष्य प्रोक्तम्- "सूरपालसुतः शेषशोभां धत्ते महाबलः । समस्तान् भूभुजो जित्वा सत्यां कुर्वन्त्रिजाभिधाम् ॥१॥राजा तच्छुत्वा चमत्कृतो मन्त्रिणं बभाषे-'किमेतद् घटते ?' । तेनोक्तम्'प्रभो! कुलदेवीप्रसादाद पुण्यप्रभावाच्च सत्यम् असम्भाव्यमपि भवति । ततो ज्ञाततत्स्वरूपेण राज्ञा सर्वेऽपि नृपाः सम्बोध्य युद्धान्निवारिताः । राजकुमार कुमारी च गृहीत्वा महोत्सवेन पुरं प्रविवेश । ततस्तयोः पाणिग्रहणमभूत् । अथ कुमारस्तया सहवासं भेजे। सोऽयं राजा कुमारपाच समेत्य तत्स्वरूपं पप्रच्छ-'कथम् एकाकी त्वं समेतः ?' । कुमारेणोक्तम्-'देव ! त्वत्कुलदेवीभिरुत्पादन अहमाऽऽनीतोऽस्मि । परं मम माता-पितरौ महादुःखं प्राप्तौ भविष्यतः । यदि प्रतिपद्दिनाद् अर्वाग् न यास्यामि तदा तौ मरिष्यतः, अतो मां विसर्जय' । राज्ञोक्तम्-'तत्पुरम् इतो द्वावष्टियोजनानि स्यात्, अतस्तव प्रयाणयोग्यां करी सज्जयामि । रुष्टान् राज्ञोऽपि सम्मान्य स्वस्वस्थानं प्रेषयामि । इत्युक्त्वा
॥२९॥