________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी
कथा॥
॥२८॥
कृत्वा तदाबारेण स्तम्भोऽपि भव्ययुक्त्या नैमित्तिकेन स्थापितः। बजासारं धनुर्वाणयुक्तं तत्पाचे स्थापितम् । ततो राजानः सिंहासनेषु निविष्टाः । गीत-नृत्याधुत्सवे भवति सति नैमित्तिकः शीघ्रं बहिर्गत्वा वेचं परावृत्य वीणावादकमध्ये गत्वा निविष्टः । ततः प्रतिहार्या प्रोक्तम्- अस्य स्तम्भस्य द्विहस्तमानम् अग्रं बाणेन यो भेत्स्यति स कुतोऽपि प्रादुर्भूतां कन्यां परिणेष्यति । ततः सर्वेऽपि नृपा नृपपुत्राच उत्थिताः, परं केनापि धनुरारोपयितुं न शक्तं, केनापि च बाणः क्षिप्त इतस्ततोऽगात् । न केनापि स्तम्भाग्रं भिन्नम्। ततो राजा विषण्णः । नैमित्तिकमपि अदृष्टा परं खेदं प्राप। ततो मन्त्रिवचसा पटहो दत्त:-'यः कोऽपि स्वादेशिको वैदेशिको वा धनुरारोप्य स्तम्भाग्रं भिनत्तिस कन्यां परिणयतु । ततो वैणिकरूपेण 'कुमारः स्तम्भसमीपमागत्य वीणां वादयित्वा प्राह- 'हे राज्ञः कुलदेवताः! प्रसन्ना भवन्तु' इत्युक्त्वा धनुरारोप्य बाणं चिक्षेप । तत्क्षणं स्तम्भाग्रे विदारिते सति फालीद्वयमुद्घटितं पपात । मध्ये वरमालाधारिणी लक्ष्मीपुजाहारभूषितां दिव्यदुकूलशालिनी मलयसुन्दरीं दृष्ट्वा राजा लोकोऽपि च महाऽऽश्चर्यपूरितोऽभूत् । तया च वैणिककण्ठे वरमाला न्यस्ता। सर्वेऽपि भूपास्तं दृष्टा कोपाऽऽविष्टा युद्ध कर्तुमुत्थिताः। राज्ञा प्रोक्तम्- 'किमहो! युद्ध क्रियते ?। पटहोद्घोषणे कृते यदि वैणिकेन बलं दर्शयित्वा कन्या वृता तदा १वीणा शिल्पमस्थ स वैणिकस्तपेण-वीणावादकस्वरूपेण । २ महाबलः ।
॥२८॥