________________
श्रीजेन कथासंग्रहः
श्री मलयसुन्दरी
कथा॥
॥२७॥
- सन्ति, चतुर्दश्यां स्वयंवरोऽस्ति, तदर्थे किं करिष्यते ?' । तेनोक्तम्-'नृपान् आकारय, स्वयंवरं कारय,
बरस्य वरणवेलायां कुतोऽपि कन्या प्रकटीभविष्यति। महाबलञ्चवरो भावी। इति तव कुलदेवीभिर्मम स्वप्ने प्रोक्तमस्ति । राजा तवचसा तुष्टो महोत्सवेन पुरमध्ये स्वगृहं प्राप । तेन नैमित्तिकेन सह वाता कुर्वतो भूपस्य प्रभाते गजपालकैर्विज्ञप्तम्- 'प्रभो ! गजपुरीषमभ्यान मुद्रारत्नमिदं लब्धम् । राजा मलयसुन्दरीनामाहितं तद् दृष्या विस्मितो नैमित्तिकमालुलोके। तेनोक्तम् - 'देव! तब पुरः सम्यग्ज्ञानं विना कथं कथ्यते ? । तत्प्रत्ययाद् राज्ञा स्वयंवरमण्डपः सजितः। सर्वभूभुजां निवासाः कारिताः। नृपा आकारिताः । बुभुक्षितामन्त्रितवत् क्षणं सायं सर्वेऽपि समेताः । नैमित्तिकेनोक्तम्-'देव! मम अर्धसाधितो मन्त्रोऽस्ति । अद्यतनी निशां विसर्जय, प्रातरागमिष्याम्येव । राज्ञोक्तम्-'मन्त्रसाधनोपहाराय किश्चिद् प्रविणं गृहाण । ततः स किचिद् द्रविणं गृहीत्वा ययौ । निशामतिक्रम्य सूर्येऽनुद्रते स तत्राऽऽगत्य नृपं प्राह-'स्वामिन् ! त्वदीयकुलदेवीमिः स्वयंवरयोग्यः स्तम्भो दत्तोऽस्ति। स पूर्वदिकातोल्याः प्रत्यासन्ने घटते। अहं पुनस्तत्रैव गच्छामि । इत्युक्त्वा स गतो राजपुरुषेण सह । स्तम्भं दृषक्षा राजनरेण राज्ञोऽग्रे प्रोक्तम् । ततो राजा महोत्सवपूर्व स्तम्भसमीपं ययौ । नैमित्तिकेन भव्ययुक्त्या पूजितः । ततः पुरुषरुत्पाटितः । अग्रे समग्रेण परिकरेण युक्तो राजाऽचालीत्। महोत्सवेन स्वयंवरमध्ये दूलस्थां शिला
॥२७॥