________________
श्रीजैन कथासंग्रहः
॥२६॥
नैमित्तिकवेवं कृत्वाऽग्रे गच्छन् नदीतटे काष्ठसमुदायं मिल्यमानं ददर्श । 'किम् ?' इति चिन्तयज्ञग्रे गच्छन् गजेन्द्रं चरन्तं तस्य विष्ठां शोधयतः पुरुषांश्च ददर्श । पप्रच्छ च- 'को हेतुर्विष्ठाशोधने' ? तैरुक्तम् - श्रीवीरधवलस्वामिनः पुत्रेण मलयकेतुना स्वर्णशृङ्गलिका रत्नजटिता समुहालिता गजचारमध्ये पतिता । गजेन लिता यदि स्यात्तदा विष्ठामध्ये लभ्यते । यावद् एवं स तैः सह वार्ता करोति तावता आक्रन्दयुक्तः कोलाहलोऽजनि । कुमारेण पृष्टम्- 'किं भो घटते' ? तैरुक्तम्- मलयसुन्दरीदुःखेन राजा राज्ञी च चितां प्रविशतः, सकोलाहलः । तदा कुमारः कामपि मर्ति मनसि धृत्वा कन्याया मुद्रिकां गजचारमध्ये प्रच्छन्नं चिक्षेप । तस्मिंस्तत्रस्थिते एव गजेन सा गिलिता । ततः कुमारो नदीतटं प्रति दधावे । भुजद्वयमुत्पाट्य गाढं वक्ति स्म 'भो भो लोका! वार्यतां वार्यताम्, राजाऽग्रे कथ्यते मलयसुन्दरी जीवति । तदा कैशिल्लोकैर्मन्त्रिणामग्रे कथितम् । तैश्च धावित्वा लग्ना चिता विध्यापिता । राज्ञा पृष्टम्- 'को हेतुः ' ? | तावता कुमारोऽपि भूपपार्श्व प्राप्तः 'चिरं जय जय' इति ब्रुवन् । राज्ञोक्तम्- 'त्वं कः ? किं कथयसि' ? । तेनोक्तम्- ‘अहं नैमित्तिकः । निमित्तेन जानामि तव सुता जीवति । चेद् न प्रत्ययस्तदाऽभिज्ञानं वच्मियदि त्वत्पुरुषाः कन्याया मुद्रिकां कुतोऽप्यानीय दर्शयेयुस्तदा मद्वचः सत्यं, नो चेन्न । इति श्रुत्वा राजा चिन्तायाचितायाश्च बहिर्निर्गतः । पुनस्तं पप्रच्छ- 'भो नैमित्तिक! तस्याः स्वयंवरार्थे नृपा आहूताः
***********
श्री मलवसुन्दरी
कथा |
॥२६॥