________________
श्रीजैन कथासंग्रहः
श्री मलयसुन्दरी
कथा॥
॥२५॥
गत्वा मध्ये पुरुषान् प्रक्षिप्य कुमारी शोधयामास । परं सा कन्या कापि न लब्या। 'नूनं केनापि जीवेन "भक्षिता' इति प्रलपन् प्राह- 'भो भटा! धावत धावत, सा कनकवती कुतोऽपि गृहीत्वा अत्राऽनीयताम् । यथा तां विडम्बनेन फलं दर्शयामि । इति लोकमुखान्छुत्वा कनकवती मां प्रति प्राह-'अहं लक्ष्मीपुम्बहारं गृहीत्वा मगधावा गृहे.यामि, तया सह मम प्रीतिवर्तते। त्वं तु काप्यन्यत्र तिष्ठ इत्युक्त्वा सा तदृहं गता। अहं च अत्राऽगच्छन्ती युवयोर्मिलिताऽस्मि । अथ कोऽपि राजपुरुषः समेष्यति, ततो यामि।"
तस्यां गतायां कुमारेण कुमारी बभाषे- 'ज्ञातं सर्व स्वरूपम् । त्वं कूपे पतिताऽजगरेण गिलिता। अस्मिन्नपि मया विदारितेच मे मिलिता। कूपोऽप्यत्रैव क्वापि घटते। अवाप्यावयोः पुण्यं जागर्ति' । अथ राज्यतिक्रमे जाते सति स कुमारी प्रति प्राह-'पृणु तावद्, आत्मीयानि बहूनि कार्याणि कर्तव्यानि सन्ति, अत उत्थीयते। इति वदन् भट्टारिकाभवने कुमार्या सह गतः। तत्र चम्पकमालायाः काठफालीद्वयं दृष्टम् । तच्च दृष्टा किमपि मनसि विचिन्त्य तेन तां प्रत्युक्तम्- 'त्वं पुरुषवेषधारिणी मगधागृहं गत्वा कयाचिद् बुया कनकवतीपार्थाद हारं गृहीत्वा द्वितीयदिनप्रदोषसमये अत्रैवाऽऽगच्छ । अहमपि आगमिष्यामि । तेन तस्या मुद्रारत्नं स्वहस्ते क्षिप्तम् । सा गता मगधागृहं प्रति । सोऽपि चचाल ।
॥२५॥