________________
श्री मलयसुन्दरी
कथासंग्रहः
कथा॥
॥२४॥
निरपराधा हन्यमानाऽस्मि ? इति विलपन्ती लोकेषु शोकाकुलेषु रक्षकवृतान्धकूपसमीपं गता। 'सर्वज्ञः शरणम्, महाबलञ्च मे शरणम्' इति वदन्ती विद्युझात्कारं दर्शयन्ती कूपे झम्पां ददौ । सर्व: कोऽपि हा हा!' कुर्वन् स्वस्थानं ययौ। राज्ञी राजाच हृष्टी। रात्री राज्ञा मन्त्रिणमाहूय प्रोक्तम्- "सा तावद् दुष्टा मृता। अथ स्वयंवरार्थमाहूता राजानो निषिम्यन्ते। 'अकस्मात् कन्या मृता' इति ज्ञाप्यते। अत्रार्थे हितकारिणी कनकवत्यपि पृच्छ्यते"। इत्युक्त्वा मन्त्रिणा सह तगृहं ययौ । द्वारं दत्तं दृष्टा कुचिकाच्छिद्रेण यावत् पश्यति तावता तां कनकवी हर्षेण हस्ते गृहीत्वा तमेव हारं प्रति इति वदन्ती ददर्श- 'हे हार! त्वं महाभाग्येन मम करे चटितोऽसि। त्वत्प्रसादेन पूर्वभववैरिणी सा मलयसुन्दरी भव्यं 'निपातिताऽस्ति !। इति श्रुत्वा राजा 'वचितोऽस्मि', इति वदन् मूर्छितः पपात । सर्वे लोका मिलिताः । चन्दनजलैः सिक्तः सचेतनः कपाटद्वयं हस्ताभ्यां कुट्टयन् बभाषे-रे ! पापिन्या हारं स्वयं गृहीत्वा सा गुणमयी पुत्री विनाशिता । तदा कनकवती तत्सकलस्वरूपं ज्ञात्वा भयाद् मया सह गवाक्षमार्गेण झम्पां दत्त्वा नष्टा । तत आवाभ्यां देवकुलस्थिताभ्यां लोकमुखादिति श्रुतम् - "राजा कपाटं भित्त्वा मध्ये प्रविष्टः । तामदृष्ट्वा 'पापिनी नष्टा' इति वदन् हस्तौ ममर्द । तत्कालंच अन्धकूपके १कनकवती। २मलयसुन्दरी। ३मारिता।
विनाशिता पाटवयं हस्ताभ्यां कुहा मूर्छितः पपात । सो
॥२४॥