SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥२३॥ त्वयेदं राज्यं ग्राह्यं, अहं च परिणेतव्या, हारप्रभावेण सर्वं सेत्स्यति । एषा मुग्धा दृश्यते, परं चरित्रं विषममस्ति । मया सम्यग् ज्ञात्वा हितार्थ कथितमस्ति । चेन्न विश्वासस्तदा हार एव याच्यताम्' । इत्युक्त्वा राजानं कोपाऽऽकुलं कृत्वा गता । राज्ञा तदा चम्पकमालामाहूय सा वार्ता प्रोक्ता । तयाऽप्युक्तम्- 'यदि हारं न दत्ते तदा सर्व सत्यमेव । कन्याऽपि तदैव आहूता हारे याचिते सा चकितचित्ता आह- तात ! हारो मत्पार्श्वे नास्ति, स केनापि अपहृतः' । तदा राज्ञा कनकवत्याः कथितं सत्यमेव मन्यमानेन रुष्टचेतसा प्रोक्तम् - रे पापे ! स्वं मुखं मा दर्शय । सा गता । राज्ञा चिन्तया रात्रिरतिक्रान्ता । प्रातस्तलारक्षमाहूय प्रोक्तम्- भो ! मलयसुन्दरीं गृहीत्वा वध्यभूमौ निपातय । इति श्रुत्वा विस्मितो दुःखितो 'राजाऽऽदेश: प्रमाणम् इति वदन् गत्वा कन्यां प्रति रुदन् प्राह । साऽपि श्रुत्वा व्याकुलचित्ता 'किं मया विनाशितम्' ? इत्यादि जल्पन्ती समुत्थिता । सख्योऽपि रुदत्यः पृष्ठतो लग्नाः । तां रुदतीं स्खलत्पादां दृष्ट्वा रक्षकेण गत्वा राज्ञः प्रोक्तम्- 'देव ! कथमेवं स्त्रीहत्या गृह्यते ? सा च एकशस्तवाग्रे किमपि विज्ञपयितुमायाति' । राज्ञोक्तम्- 'सा मम दृष्टौ मा आयासीत् परं यदि स्त्रीहत्या चिन्त्यते तदा सा स्वयमेव पातालमूलनाम्नि अन्धकूपे पततु । यदि न पतति तदा यथा तथा विनाश्यैव' । इति राजादेशं प्राप्य रक्षकः कुमार्यै कथयामास । ततः सा 'हा मातः ! हा तात ! हा मलयकेतुप्रातः ! कथं श्री मलयसुन्दरी कथा ॥ ॥२३॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy