________________
श्रीजैन
कथासंग्रहः
श्री मलयसुन्दरी
कथा॥
॥२२॥
कुमायाँ भाले तिलके कृते पुरुषरूपां जातां दृष्या तां प्रत्युक्तम्- 'यावदहं निष्ठ्यूतेन तिलकमिदं न प्रमार्जयिष्ये तावत् त्वं पुरुषरूपैव द्रक्ष्यसे । एवं तौ यावतत्र निश्चलौ स्थिती तावत् तत्रैका स्त्री कम्पमानाङ्गी तो दृष्टा च विशेषतश्चकिता समेता। कुमारेण भाषिता- भद्रे ! का त्वं ? किं भीतेव दृश्यसे ? आवां पथिको, किचिन्न जानीवस्ततः पृच्छ्यते । सा प्राह-भोः क्षत्रियो ! एषा गोला नदी। अत्रासने चन्द्रावती पुरी। तत्र वीरधवलो नाम राजा। तस्य मलयसुन्दरी कन्याऽस्ति । तस्या अपरमाता कनकवती तां प्रति मात्सर्य पत्ते । अहं च तस्या 'महल्लिका सोमाभिधानाऽस्मि । दिनत्रयात् पूर्व रात्री मयि समीपे स्थितायां लक्ष्मीपुजनामा हारः कनकवतीकण्ठेऽपतत् । कौतुकेन तया मया च आकाशे वीक्षितम्, परंन कोऽपि क्षेप्ता दृष्टः । ततस्तयाऽहं भणिता- 'कस्यापि हारस्वरूपं न प्रकाश्यम्'। मया प्रपन्नम् । ततः सा हारं सगोप्य तदैव महासाहसयुक्ता मया सह श्रीवीरधवलपार्श्व गता। प्रोचे चप्राणेश! किमपि वक्तुं प्राप्ताऽस्मि, अवसरे विलम्बो न युक्तः । शृणु, पृथ्वीस्थानपुरे सूरपालो राजा, तस्य महाबलः पुत्रः। तस्य मानुषमेकैकं मलयसुन्दरीपाधै समेति । एतया लक्ष्मीपुञ्जहारस्तस्मै दत्तोऽस्ति; इति कथापितं च - त्वया सर्वसैन्येन स्वयंवरे समेतव्यम्, तत्र स्वजनराजानोऽपि बहवो मिलिष्यन्ति। १ अन्तःपुरचरा-दासी।
॥२२॥