________________
श्रीजैन
कथासंग्रहः
_॥२१॥
• शब्दानुसारेण ज्ञातः, दृष्टश्च । चिन्तितं तेन- 'नूनम् अनेन कोऽपि जीवो गिलितः, तं च हन्तुं वृक्षस् आस्फालयितुमागच्छति । तत एनं विदार्य गिलितं मनुष्यादिकं बहिष्करोमि । इति ध्यात्वा वृक्षादुत्तीर्य वृक्षतले निश्चलतया स्थितः । यावताऽजगरो वृक्षस्कन्धे वेष्टनं कर्तुं लग्नस्तावता कुमारेण तस्यौष्ठपुटं 1. गृहीत्वा बलाद् यत्नेन विदारितः । तन्मध्याद् एका स्त्री निर्गता अचैतन्येऽपि 'महाबलो मे शरणम्' इति जल्पन्ती । कुमारः स्वनामश्रवणेन विस्मितः । केयम्' ? इति विशेषतस्तस्या मुखं पश्यन् मलयसुन्दर्याः सदृशं दृष्ट्वा महताऽऽदरेण वायुं विजयति स्म । सा च किञ्चित् सचेतना कुमारोक्तं श्लोकं पपाठ । तदा तु तस्य चित्ते कुमारीनिश्चये सति महत्कौतुकं जातम् । साऽपि समुन्मीलितलोचना शनैः शनैः सावधाना कुमारमुपलक्ष्य लज्जावती बभूव। डूचे च- 'प्राणेश' ! त्वं कुतः ? । तेनोक्तम्- 'पूर्वम् आसन्ननदीजले शरीरं क्षालय, पश्चात् परस्परं कथ्यते स्वरूपम् । ततस्तौ नद्यां गत्वा शरीरं क्षालयित्वा तत्राऽऽयातौ । कुमारेण स्वस्वरूपे कथिते कुमारी शिरो धूनयति स्म, विषमा दैवगतिः ! । अथ कुमारः प्राह त्वं तत्र सुरक्षित स्थाने वसन्ती कथमजगरोदरं गताऽसि ? । सा यावत् किञ्चिद् वक्तुमारभते तावत् कुमारेण तत्र प्रत्यासन्ने मनुष्यसञ्चरं ज्ञात्वा कुमारीं प्रत्युक्तम्- 'क्षणं मौनेन तिष्ठ । कोऽपि तस्करः पारदारिको द्यूतकारो वा रात्री सञ्चरन्नत्र आयाति' । ततः कुमारेण शीर्षाद् गुटिका आकृष्य आम्ररसेन घृष्टा । ततः
श्री मलयसुन्दरी
कथा ।।
॥२१॥