________________
श्रीजैन
श्री मलयसुन्दरी
कबा॥
कथासंग्रहः
॥२०॥
वाहत्या पाति । अव तु लक्ष्मीपुजाहारोऽपितः।मम माताऽपि हारं गतं श्रुत्वा दूनाऽस्ति । मयोक्तम्'मातः ! पढदिनमध्ये बेद् हारं न ददे तदाऽग्निं साधयामि । मम मात्राऽपि भणितम्-'यदि हारो नाऽऽयास्यति तदा मया मतव्यमेव । ततोऽहं रात्री शयनस्थाने प्रहरकं दास्ये, यः कश्चिद् भूतो राक्षसो वा प्राग्भवबैरी समेष्यति तत्स्वरूपं विलोक्य तं विजित्य हारं च गृहीत्वा पाश्चात्यरात्रौ चलिष्यामि। इत्युक्त्वा कुमारः स्वस्थानं गत्वा रात्री खड्गमादाय, दीपच्छायामाश्रित्य स्थितः । अर्धरात्रे गवाक्षमार्गेण एकः करः प्राप्तः । स च इतस्ततः परिभ्रमति स्म । कुमारेण चिन्तितम्- करणभूषितः कस्याश्चिद् देवतायाः करोऽयं घटते, सा अदृश्याऽस्ति, यद्यत्र हस्ते प्रहारं दास्ये तदा सा यास्यति । परं हस्तमेव आरोहामि । इति ध्यात्वा तमेव आरुरोह। हस्तारूढो गगने चचाल । तं पातयितुं हस्तेऽत्यर्थ कम्पमाने सति द्वाभ्यां हस्ताभ्यां बाढतरं हस्तं गृहीत्वा स्थितः । अग्रे देवी काचिद् रोषाऽरुणनेत्रा प्रत्यक्षीभूता। कुमारेण साहसं कृत्वासा मुष्टिप्रहारेण हता। तत आरटन्ती दीनवदना करुणस्वरं मुहुर्महुरवदत्- 'कृपानिधे ! मुच मुझे। अथ कारुण्यात् कुमारेण आशु सुरी कराद् मुक्ता। सा देवी नष्टा; कुमारोऽम्बरात् पतितः, परं कस्यचित् सहकारस्योपरि प्राप्तः, तेन शरीरे तादृक् पीडा नाभूत् । यावत्तत्र स्थितो विविधचिन्तासमुद्रे पतितो देवोपालम्भान् दत्ते तावत् कोऽपि महान् अजगरः भूघर्षणशब्दं कुर्वन् वृक्षमूलमागच्छन्
॥२०॥